Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta

View full book text
Previous | Next

Page 434
________________ કરશે षष्ठीविभक्तिविचारः। चैत । मैवं यतो निष्ठाया निरर्थकत्त्वाम्य पगमें ऽपि धातोः कदन्तत्वमक्षतमिति षष्ठीप्रसक्तर्दर्वारतया सूत्रे कृतीत्युपादानमनर्थकमिति कृतीत्यपादानसामर्थ्यादेव तान्तं निरर्थकमवसीयत इति तहितेनिप्रत्ययस्य नानाथकत्वमनन्यगतिकतयाऽभ्य पेयते तान्तन्तु प्रकारणादिवत् तत्तद्भावनावन्तमुपस्थापयति पक्कपूर्वोत्यत्र पाकानुकूलभावनावान् कृतपूर्वोत्यत्र करणभावनावान् प्रतौयते तत्व तद्धिताथैकदेशे पाके भावनाया वौदनकर्मत्वस्य करणे भावनायां वा कटकर्मत्वस्य विवक्षायामोदनपदात्कटपदात्षष्ठौं वारयति सूबे कृतौति द्वितीया तु सामान्यतो विहिता भवत्येवेति पक्कपूर्वी प्रोदनं कतपूर्वी कटमित्यादौ कर्मणि न षष्ठी किं तु द्वितीयवेति पदवाक्यरत्नाकर प्राहुः । शाब्दिकनव्यास्तु कृतं पूर्वमनेनेति विग्रहे विवक्षितकर्मतया भावे क्त प्रत्यये कते कर्मसापेक्षवाभावात्ममासतद्धिती भवत एव तथा च कतपूर्वीत्ययम्पूर्व कृतवानित्यनेन समानार्थकः संपद्यते तद्धिते सति वृत्तिभेदात् कर्मविवक्षायां गुणभूतयाऽपि क्रियया कारकाणां संबन्धस्य कटं कुतबा नित्यादौ दर्शनादवापि कटकर्मत्वान्वयः तत्र कर्मणि षष्ठीवारणाय सूत्रे कृतीत्युपात्तं न च तस्य कृत्त्वात् कृदुपादानेऽपि षष्ठीप्रसतिर्दारैवेति वाच्यम् सूचे कृत्यदस्य प्रत्ययान्तराप्रकृतिभूतस्यैवोपादानात् कृतपूर्वशब्दस्य तद्वितप्रतितया तान्तकृतशब्दस्य तद्धितप्रकृतित्वात् । तण्डलस्य पाचकतम इत्यादी षष्ठ्या असाधुत्वमिष्टमेव अत एव तण्डुलं पाचकतम इत्यादिप्रयोग साधु कालापा

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488