Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta
View full book text
________________
विभक्त्यर्थनिर्णये।
४२१ पपत्तिरन्वये तु तेनैव कर्माकासाविच्छित्तेः कटादेः कर्मनया तत्राचयासंभवः सूबे कतौतिव्यर्थ षष्यप्रमतो. कर्मणोऽभिधानात् । अवापि कटमिति हितीयाऽनुपपत्तिश्चेति चेत् । अत्र शाब्दिकाः । कृतमिति भावतान्तमविवक्षितकर्मकं पूर्वशब्देन समासमासाद्य कर्तृतद्धितस्य प्रकृतिर्भवतीति कृतपूर्वीशब्दस्मिद्ध: प्राक्कालिककरणकतैतिशाब्दबोधमर्जयति तत्र भावतान्तकार्थे कटकर्मत्वस्यान्वय इति वदन्ति । अत्र गुरुचरणाः । भावतान्ते कर्मान्वयो न युज्यते । अविवक्षितकर्मण एव भावप्रत्ययाद् अन्यथा गतं गम्यते वेत्यादौ भावप्रत्ययान्ते ग्राममिति हितोयान्तार्थस्य ग्रामकर्मकत्वस्यान्वय प्रसङ्गात् । कर्मणो विवक्षायां भाव प्रत्ययस्य विवक्षायां कर्मान्वयस्थाव्युत्पन्नत्वात् किं च कृतपूर्वीत्यत्र कृञथै कर्मान्वयोपगमे कृतीत्यनेन कथं कर्मषष्ठीवारणं निष्ठापर्यदामानुसरणे तु किं कृतीत्युपादानेन तस्मात्कृतपूर्वोत्यत्र कृतादिपदार्थपरित्यागेन तद्वितस्य प्राक्कालिकभीवनावानर्थः । यदि च पक्कपूर्वी वेदानित्यादः पर्यायत्वमाशयते तदा पाकादिभावनावानेव तद्धितार्थः । तद्धितार्थैकदेशे पाकादौ षठ्यर्थकर्मत्वान्वयवारणाय सूत्रे कृतीत्युपादानम् । ननु विग्रहे समासे च विवक्षितस्यापि निष्ठार्थस्य कर्ट तहितोत्पत्तौ सत्यां निष्ठाया अविवक्षाया निरर्थकत्वं युज्यते न तु धातोरतो धात्वर्थे तदुपहितत हितार्थभावनायां वा कर्मान्वयः सम्भवति तावतैव कृतीत्युपादानसार्थक्यं किं तहितानां पाकादिनानाभावनावदर्थकतया नानार्थताऽभ्युपगमेनेति

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488