Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta
View full book text
________________
४०६
विभक्त्यर्थनिर्णये। क
. ॥ अथ षष्ठी। .. इस्त्रोस्वामिति वय: प्रत्ययाप्तत्र डकारोऽनुबन्धः क्व चिदप्यश्रूयमागत्वान्न वाचकताकुक्षिप्रविष्ट इति सुमनमः सौकुमायें सुमनसो: सौरभ्यं सुमनसां मार्दवमित्यादी श्रूयमाणत्वादसस्तत्वेन अोस ओस्त्वेन आम आन्त्वेन वाचकत्वमनुशासनसिद्धः षश्यर्थः । अनुशासनं च “षष्ठी शेषे” इति उक्तभ्यः कर्मादिभ्यः प्रातिपदिकार्थादिभ्यश्च भिन्न: शेषः । काशिकाकृतस्तु यच्चाप्रधानं तच्छेषशब्देनोच्यते तदुभयत्र पर्यायेण वा षष्ठी भवतीत्याहुः । तत्र शेषस्तावद्भिन्नत्वेन अप्रधानमपि तत्त्वेन न षष्ठीवाच्यं किं तु शेषत्वेन शेषत्वं सम्बन्धत्वं सप्रतियोगिकत्वे सति सानुयोगिकत्वं प्रतियोगित्वानुयोगित्वनिरूपकतावच्छेदकधर्मवैशिष्ट्यमिति यावत् एकशतं षष्टयर्था इति महाभाष्यपरिगणितमपि न प्रवृत्तिनिमित्तानामनेकविधत्वं ज्ञापयति किं तु शेषव्यक्तौनां सम्भवति शक्त्यैक्ये अनन्त शक्तिकल्पनाया अन्याय्यत्वात् दर्शितधर्मवान् शेष: संयोगसमवायवत्वकर्ट त्वादिकारकविषयत्वादिभेदादनेकविधः हिमानां गिरिः गजस्सालानं वलिकाया स्तम्भ इत्यादौ षष्ठयर्थः संयोगस्तत्र प्रकृत्यर्थस्य प्रतियोगितयाऽन्वयः पुरुषस्य दण्डः कर्णस्यावतंस: हृदयस्य हार इत्यादौ षष्ठ्यर्थसंयोगे प्रकृत्यर्थम्यानुयोगितयाऽन्वय: । हिमप्रतियोगिकम योगवान् गिरिरित्या दिरन्वयबोध: । पुरुषानुयोगिकसंयोगवान् दण्ड इत्यादिरन्वयदोधः । वृक्षस्य शाखेत्यादौ समवायः षष्यर्थस्तत्र प्रकृत्यर्थस्य प्रतियोगितयाऽन्वयः।

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488