SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ४०६ विभक्त्यर्थनिर्णये। क . ॥ अथ षष्ठी। .. इस्त्रोस्वामिति वय: प्रत्ययाप्तत्र डकारोऽनुबन्धः क्व चिदप्यश्रूयमागत्वान्न वाचकताकुक्षिप्रविष्ट इति सुमनमः सौकुमायें सुमनसो: सौरभ्यं सुमनसां मार्दवमित्यादी श्रूयमाणत्वादसस्तत्वेन अोस ओस्त्वेन आम आन्त्वेन वाचकत्वमनुशासनसिद्धः षश्यर्थः । अनुशासनं च “षष्ठी शेषे” इति उक्तभ्यः कर्मादिभ्यः प्रातिपदिकार्थादिभ्यश्च भिन्न: शेषः । काशिकाकृतस्तु यच्चाप्रधानं तच्छेषशब्देनोच्यते तदुभयत्र पर्यायेण वा षष्ठी भवतीत्याहुः । तत्र शेषस्तावद्भिन्नत्वेन अप्रधानमपि तत्त्वेन न षष्ठीवाच्यं किं तु शेषत्वेन शेषत्वं सम्बन्धत्वं सप्रतियोगिकत्वे सति सानुयोगिकत्वं प्रतियोगित्वानुयोगित्वनिरूपकतावच्छेदकधर्मवैशिष्ट्यमिति यावत् एकशतं षष्टयर्था इति महाभाष्यपरिगणितमपि न प्रवृत्तिनिमित्तानामनेकविधत्वं ज्ञापयति किं तु शेषव्यक्तौनां सम्भवति शक्त्यैक्ये अनन्त शक्तिकल्पनाया अन्याय्यत्वात् दर्शितधर्मवान् शेष: संयोगसमवायवत्वकर्ट त्वादिकारकविषयत्वादिभेदादनेकविधः हिमानां गिरिः गजस्सालानं वलिकाया स्तम्भ इत्यादौ षष्ठयर्थः संयोगस्तत्र प्रकृत्यर्थस्य प्रतियोगितयाऽन्वयः पुरुषस्य दण्डः कर्णस्यावतंस: हृदयस्य हार इत्यादौ षष्ठ्यर्थसंयोगे प्रकृत्यर्थम्यानुयोगितयाऽन्वय: । हिमप्रतियोगिकम योगवान् गिरिरित्या दिरन्वयबोध: । पुरुषानुयोगिकसंयोगवान् दण्ड इत्यादिरन्वयदोधः । वृक्षस्य शाखेत्यादौ समवायः षष्यर्थस्तत्र प्रकृत्यर्थस्य प्रतियोगितयाऽन्वयः।
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy