Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta
View full book text
________________
पञ्चमीविभक्तिविचारः । योगिनि समानकालिकेऽपि विगतवर्षणे तथा न प्रयोगः । आडो मर्यादाऽर्थः सा च व्यवधानसंसर्गयोरभावौ तवाव्यवधानं क चित्कालिकं क चिद्देशिक क चित्याठिक क चिदन्यथाऽपि संसर्गस्थ तादात्म्यसंयोगसादिश्यसमानकालिकत्वादेरभावोऽपि यथायथं तात्पर्यवशाटुपतिछते आमुक्तः संसार इत्यत्र संसार मुक्तिनिरूपितं कालिकमव्यवधानं मुक्तिसमानकालिकत्वाभावश्च पासमुद्रान्मद इत्यत्र मृदां समुद्रनिरुपितं दैशिकमव्यवधानं तादात्म्यस्य सादेश्यस्य वा अभावश्च प्राकडारादेका संज्ञा इत्यत्र एकसंज्ञाकशब्दविधीनां कडारसूत्रनिरूपितं पाठिकमव्यवधानं तत्पठितत्वाभावश्चावगम्यत इति । अभिविधौ वर्तमानस्याङो व्यापकत्वमितरसंबन्धश्चार्थस्मच व्यापकताघटक इतरनिरूपितश्चैक एब संसर्गः प्रतीयते आपरमाणोः पृथिवौत्वसामानाधिकरण्येन तादात्म्यसंसर्गावच्छिन्ना पच्यमानपरमाणुव्यापकता तदितरतादात्म्यं च भासते आसमुदाद्यश इत्यादौ यशसि समुद्राभिव्यापकत्वं समुद्रेतरसंबन्धो भासत इतीयं रीतिरन्यत्रापि जयेति पदवाक्यरत्नाकरे गुरुचरणाः । के चित्त यावच्छन्दतुल्यार्थकस्याडो मर्यादा अभिविधिवार्थः मर्यादा तु सौमा कालरूपा देशरूपा च कालरूपा यथा तस्यामारभ्य तां देवीमादशम्याः प्रपूजयेदित्यादौ कालनिष्ठं सौमत्वं तु समभिव्याहृतकालप्रागभावानधिकरणस्वप्रागभावाधिकरणस्वसजातीययावत्कालत्तिसमभिव्याहृतक्रियाऽनधिकरणत्वं दर्शितस्थले पुनारूपक्रियायाः शक्ल दशमौनिष्ठसौमत्वनिरूपकत्वमा

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488