SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ पञ्चमीविभक्तिविचारः । योगिनि समानकालिकेऽपि विगतवर्षणे तथा न प्रयोगः । आडो मर्यादाऽर्थः सा च व्यवधानसंसर्गयोरभावौ तवाव्यवधानं क चित्कालिकं क चिद्देशिक क चित्याठिक क चिदन्यथाऽपि संसर्गस्थ तादात्म्यसंयोगसादिश्यसमानकालिकत्वादेरभावोऽपि यथायथं तात्पर्यवशाटुपतिछते आमुक्तः संसार इत्यत्र संसार मुक्तिनिरूपितं कालिकमव्यवधानं मुक्तिसमानकालिकत्वाभावश्च पासमुद्रान्मद इत्यत्र मृदां समुद्रनिरुपितं दैशिकमव्यवधानं तादात्म्यस्य सादेश्यस्य वा अभावश्च प्राकडारादेका संज्ञा इत्यत्र एकसंज्ञाकशब्दविधीनां कडारसूत्रनिरूपितं पाठिकमव्यवधानं तत्पठितत्वाभावश्चावगम्यत इति । अभिविधौ वर्तमानस्याङो व्यापकत्वमितरसंबन्धश्चार्थस्मच व्यापकताघटक इतरनिरूपितश्चैक एब संसर्गः प्रतीयते आपरमाणोः पृथिवौत्वसामानाधिकरण्येन तादात्म्यसंसर्गावच्छिन्ना पच्यमानपरमाणुव्यापकता तदितरतादात्म्यं च भासते आसमुदाद्यश इत्यादौ यशसि समुद्राभिव्यापकत्वं समुद्रेतरसंबन्धो भासत इतीयं रीतिरन्यत्रापि जयेति पदवाक्यरत्नाकरे गुरुचरणाः । के चित्त यावच्छन्दतुल्यार्थकस्याडो मर्यादा अभिविधिवार्थः मर्यादा तु सौमा कालरूपा देशरूपा च कालरूपा यथा तस्यामारभ्य तां देवीमादशम्याः प्रपूजयेदित्यादौ कालनिष्ठं सौमत्वं तु समभिव्याहृतकालप्रागभावानधिकरणस्वप्रागभावाधिकरणस्वसजातीययावत्कालत्तिसमभिव्याहृतक्रियाऽनधिकरणत्वं दर्शितस्थले पुनारूपक्रियायाः शक्ल दशमौनिष्ठसौमत्वनिरूपकत्वमा
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy