________________
विभक्त्यर्यनिर्णये ।
र्थक वर्जनाद्यर्थ विरहे न कर्मप्रवचनीयता यथा ओदनं परिषिञ्चतीत्यादौ । चङ् मर्यादावचने इति सूत्रम् । चङ् इत्येष शब्दो मर्यादावचने खार्थ मर्यादाप्रतिपादने सति कर्मप्रवचनीयसंज्ञो भवतीत्यर्थक म र्यादायामेतावन्मात्रोक्त्यैव समाहितसिहौ वचनग्रहग्राम भित्रिधावपि कर्मप्रवचनीयतां ज्ञापयति तथा हि काशिका वचनग्रहणादभिविधिरपि गृद्यत इति । मर्या दावचन इति ईषदर्थं क्रियायोगे उक्तसंज्ञा निषेधार्थ मिति । कर्मप्रवचनीययोगे पञ्चम ज्ञापयति । पञ्चम्यपापरिभिरिति सूत्रम् । अपाङ्परित्येतैः कर्मप्रवचनीयैर्योगे पञ्चमौ भवतीत्यर्थकम् अपचिगर्तेभ्यः परिचिगतेभ्यो वा दृष्टो देव इत्यादावपपरिशब्दयोवर्जनमत्यन्ताभावोऽर्थः पञ्चम्या आधेयत्वमर्थोऽत्यन्ताभावेऽन्येति स प्रतियोगितया अपरपदार्थे दृष्ट्यादावन्वेति तथा च चिंगतत्त्वत्यन्ताभावप्रतियोगिदृष्टिकर्ता देव इत्यन्वयबोधः एवमेत्रापहरेः परिहरेव संसार इत्यादावप्यन्वयो बोध्य इति संप्रदायः । अत्र समानकालिकत्व संबन्धेनाध्यच्त्यन्ताभावस्य समभित्र्याहृतार्थं दृष्ट्यादावन्वयस्तेन कालान्तरावच्छेदेन त्रिगर्त्तवृत्तेरत्यन्ताभावस्य प्रतियोगिन्यपि त्रिगर्तवर्षणे तथा न प्रयोगः । वस्तुतस्तु समभिव्याहृतार्थस्यान्वयितावच्छेदकावच्छिन्न प्रतियोगिताकत्वेन संबन्धेनात्यन्ताभावेऽन्वयः तथाविधात्यन्ताभावस्य समानकालिकतया समाभिव्याहृतार्थेऽन्वयस्तथा च त्रिगर्तवृत्तेष्टात्यन्ताभावस्य समानकालिकौ या दृष्टिस्तत्कर्ता देव हूत्यन्वयबोधस्तेन त्रिगर्तष्टत्तेर्वृष्टिगगनाद्युभयाभावस्य प्रति
४८
300