Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala
View full book text
________________
F
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
द्वात्रिंश प्रमादस्था| नाख्यमध्ययनम् ।
प्रमादस्य स्थानानि ।
॥३६॥
एमेव भावम्मि गओ पओसं, उवेइ दुक्खोहपरंपराओ। पउहचित्तो य चिणाइ कम्म, जं से पुणो होइ दुहं विवागो ॥९८॥ भावे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण ।।
न लिप्पई भवमझे वि संतो, जलेण वा पुक्खरिणीपलासं ॥ ९९ ॥ व्याख्या-"चक्खुस्स" इत्यादिसूत्राणि अष्टसप्ततिः । तत्रापि चक्षुराश्रित्य त्रयोदश-चक्षुषो रूपं, गृह्यतेऽनेनेति | ग्रहणं, कोऽर्थः ? आक्षेपकं वदन्ति । ततः किम् ? इत्याह-'तद्' रूपं रागहेतुः, 'तुः' पूरणे, मनोज्ञमाहुः, तथा 'तद्'। रूपमेव द्वेषहेतुम् अमनोज्ञमाहुः, ततस्तयोश्चक्षुःप्रवर्त्तने रागद्वेषसम्भवात् तदुद्धरणाशक्तिलक्षणो दोष इति भावः । आह-एवं न कश्चित् सति रूपे वीतरागः स्याद् अत आह–'समस्तु' अरक्तद्विष्टतया तुल्यः पुनर्यः 'तयोः' मनोज्ञेतररूपयोः स वीतराग इव वीतरागः, उपलक्षणत्वाद् वीतद्वेषश्च, इदमुक्तं भवति-न तावत् चक्षुः तयोः प्रवर्तयेत् , कथञ्चित् प्रवर्त्तने च समतामेवावलम्बेतेति ॥ ननु यद्येवं रूपमेव रागद्वेषजनकं ततस्तदुद्धरणार्थिनस्तद्गतैव चिन्ताऽस्तु, | रूपे चक्षुर्न प्रवर्त्तयेद् इत्येवं तु न चक्षुषश्चिन्ता कत्तुं युक्तेत्याशङ्कयाह-रूपस्य चक्षुः गृह्णातीति ग्रहणं वदन्ति, तथा |चक्षुषो रूपं गृह्यत इति ग्रहणं वदन्ति, अनेन च रूपचक्षुषोह्यग्राहकभावदर्शनतः परस्परमुपकार्योपकारकभाव उक्तः, ततो यथा रूपं रागद्वेषकारणं तथा चक्षुरपि इत्युक्तं भवति । अत आह–रागस्य हेतुं प्रक्रमात् चक्षुः सह मनोज्ञेन ग्राह्येण रूपेण वर्त्तते समनोज्ञमाहुः, द्वेषस्य हेतुम् 'अमनोज्ञम्' अविद्यमानमनोज्ञरूपमाहुः॥ इत्थं रागद्वेषोद्धरणोपायमभिधाय एतदनुद्धरणे दोषमाह-रूपेषु यः गृद्धि' रागरूपां उपैति तीब्राम् , अकाले भवम् आकालिकं प्राप्नोति
यदुक्तम्-इच्छा मूर्छा कामः, नेहो गावं ममत्वमभिनन्दः । अभिलाष इत्यनेकानि रागपर्यायवचनानि ॥१॥
*(XOXOXOXXXOXOXOXOXOXOXO
॥३६०॥

Page Navigation
1 ... 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798