Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala
View full book text
________________
प्रमादस्य स्थानानि ।
कस्यचित्सम्बन्धिनाऽवष्टम्भेन रहितः, मैथुनरूपाश्रवोपलक्षणं चैतत् ॥ उक्तमेवार्थ निगमयितुमाह-रूपाऽनुरक्तस्य नरस्य 'एवम्' अनन्तरोक्तप्रकारेण कुतः सुखं भवेत् कदाचित् किञ्चित् ?, किमित्येवम् ?, यतः 'तत्र' रूपाऽनुरागे उपभोगेऽपि 'केशदुःखम्' अतृप्तिलाभतालक्षणबाधाजनितमसातम् , उपभोगमेव विशिनष्टि--'निर्वर्त्तयति' उत्पादयति, 'यस्य' | उपभोगस्य कृते “ण” वाक्यालङ्कारे, 'दुःखं' कृच्छ्रम् आत्मन इति गम्यते ॥ इत्थं रागस्यानर्थहेतुतामभिधाय द्वेषस्याऽपि तामतिदेष्टुमाह-एवमेव' यथाऽनुरक्तस्तथैव रूपे गतः प्रद्वेषमुपैति 'दुःखौघपरम्पराः' उत्तरोत्तरदुःखसमूहरूपाः, तथा प्रदुष्टचित्तः चस्य भिन्नक्रमत्वात् चिनोति च कर्म, 'यत्' कर्म "से" तस्य पुनर्भवति 'दुःखं दुःखहेतुः 'विपाके' अनुभवकाले, इह परत्र चेति भावः । पुनर्दुःखग्रहणमैहिकदुःखापेक्षम् , अशुभकर्मोपचयश्च हिंसाद्याश्रवाऽविनाभावीति तद्धेतुत्वमनेनाऽऽक्षिप्यते ।। इत्थं रागद्वेषयोरनुद्धरणे दोषमभिधाय तदुद्धरणे गुणमाह-रूपे विरक्तः उपलक्षणत्वाद् अद्विष्टश्च मनुजः 'विशोकः' शोकरहितः सन् तन्निबन्धनयो रागद्वेषयोरभावात् 'एतेन' अनन्तरोपदर्शितेन "दुक्खोहपरंपरेणं" ति दुःखानाम् ओघाः-सङ्घातास्तेषां परम्परा-सन्ततिः दुःखौघपरम्परा तया 'न लिप्यते' न स्पृश्यते भवमध्येऽपि 'सन्' तिष्ठन् , दृष्टान्तमाह-जलेनेव, वाशब्दस्योपमार्थत्वात् 'पुष्करिणीपलाशं' पद्मिनीपत्रं जलमध्ये सदिति शेषः॥ इत्थं चक्षुराश्रित्य त्रयोदश सूत्राणि व्याख्यातानि । एतदनुसारेणैव शेषेन्द्रियाणां मनसश्च त्रयोदश सूत्राणि व्याख्येयानि । नवरम्-"हरिणमिए" त्ति मृगः सर्वोऽपि पशुरुच्यते, ततश्च 'हरिणमृगः' हरिणपशुः॥ तथा “बडिसविभिन्नकाए" त्ति बडिशं-प्रान्तन्यस्तामिषो लोहकीलकः ॥ 'मनसः' चेतसो भावः-अभिप्रायः स चेह स्मृतिगोचरस्तं 'ग्रहणं' ग्राह्यं वदन्ति, 'मनोझं मनोज्ञरूपादिविषयम् 'अमनोज्ञ' तद्विपरीतविषयम् । एवमुत्तरग्रन्थोऽपि भावविषयरूपाद्यपेक्षया al व्याख्येयः। यद्वा स्वप्नकामदशादिषु भावोपस्थापितो रूपादिरपि भाव उक्तः, स मनसो ग्राह्यः । “करेणुमग्गावहिए
XXXXXXXXXXXX

Page Navigation
1 ... 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798