Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala

View full book text
Previous | Next

Page 745
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । "खेत्तकाले य" त्ति क्षेत्रकालौ च 'भावं च' अनुभावलक्षणं पर्यायं चतुःस्थानिकादिरसमिति यावत्, “अदुत्तरं" ति त्रयस्त्रिंश अत उत्तरं शृणु कथ्यमानमिति शेष इति सूत्रार्थः ॥ १६ ॥ तत्र तावत् प्रदेशाप्रमाह कर्मप्रकृतिसवेसिं चेव कम्माणं, पएसग्गमणंतगं । गंठियसत्ताईयं, अंतो सिद्धाण आहियं ॥१७॥ नामकम___ व्याख्या-सर्वेषां, 'चः' पूरणे, 'एवः' अपिशब्दार्थः, सर्वेषामपि कर्मणां प्रदेशाग्रम् अनन्तमेवाऽनन्तकं, तच्चानन्तकं ध्ययनम् । ग्रन्थिगसत्त्वाः-ये ग्रन्थिदेशं गत्वाऽपि तद्भेदाऽविधानेन न कदाचिदुपरिष्टाद् गन्तारः ते चाऽभव्या एवाऽत्र गृह्यन्ते तान् अतीतं तेभ्योऽनन्तगुणत्वेन अतिक्रान्तं ग्रन्थिगसत्त्वातीतं, तथा 'अन्तः' मध्ये सिद्धानामाख्यातम् , सिद्धेभ्यो हि कर्म-1* कर्मणां परमाणवोऽनन्तभाग एवेति सूत्रार्थः ॥ १७ ॥ सम्प्रति क्षेत्रमाह परमाणुपरिसजीवाण कम्मं तु, संगहे छद्दिसागयं । सवेसु वि पएसेसु, सवं सोण बद्धगं ॥१८॥ *माणं क्षेत्रपव्याख्या-सर्वजीवानां कर्म, 'तुः' पूरणे, 'सङ्घहे' सङ्घहक्रियायां योग्यं भवतीति शेषः। कीदृशं सत् ? इत्याह रिमाणं च। "छदिसागयं" ति षण्णां दिशां समाहारः पदिशं तत्र गतं-स्थितं षड्दिशगतम् , एतच्च द्वीन्द्रियादीनेवाधिकृत्य नियमेन व्याख्येयम् , एकेन्द्रियाणामन्यथाऽपि सम्भवात् । तथा चागमः-एगिंदिया णं भंते ! तेयाकम्मपोग्गलाणं गहणं करेमाणे किं तिदिसिं करेइ चउद्दिसिं करेइ पंचदिसिं करेइ छद्दिसिं करेइ ? गोयमा ! सिय तिदिसिं सिय चउद्दिसिं सिय पंचदिसिं सिय छद्दिसिं करेइ । बेइंदिया जाव पंचिंदिया नियमा छद्दिसिं" ति । तच्च गृहीतं सत् केन सह कियत् कथं वा ॥३६६॥ |बद्धं भवति ? इत्याह-सवेसु वि पएसेसु" त्ति सुव्यत्ययात् सर्वैरपि 'प्रदेशः' आत्मसम्बन्धिभिः 'सर्व' समस्तं | "एकेन्द्रियो भगवन् ! तैजसकार्मणपुद्गलानां ग्रहणं कुर्वाणः किं त्रिदिशं करोति चतुर्दिशं करोति पञ्चदिशं करोति षदिशं करोति? गौतम! स्यात् त्रिदिशं स्यात् चतुर्दिशं स्यात् पञ्चदिशं स्यात् षड् दिशं करोति । द्वीन्द्रियो यावत् पञ्चेन्द्रियो नियमात् षड्दिशमि"ति ।

Loading...

Page Navigation
1 ... 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798