Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala
View full book text
________________
अत एव बहुप्राणविनाशनं नास्ति ज्योतिःसमं शस्त्रं, यस्मादेवं तस्मात् ज्योतिर्न दीपयेत् ॥ पचनादौ जीवघातो भवति न तु क्रयविक्रययोः, अतो युक्तमेवाऽऽभ्यां निर्वहणमिति कस्यचिदाऽऽशङ्का स्यादत आह— 'हिरण्यं' कनकं 'जातरूपं च ' रूप्यं, चकारोऽनुक्ताऽशेषधनधान्यादिसमुच्चये, मनसाऽपि न प्रार्थयेद्भिक्षुरिति योगः कीदृशः सन् ? समलेटुकाश्चनो विरत: ' क्रयविक्रये ' क्रयविक्रयविषये ॥ किमित्येवम् ? अत आह— क्रीणन् 'ऋयिको भवति' तथाविधेतरलोकसदृश एव भवति, विक्रीणानश्च वणिग् भवति, वाणिज्यप्रवृत्तत्वादिति भावः, अत एव क्रयविक्रये 'वर्त्तमानः' प्रवर्त्तमानो भिक्षुर्भवति न तादृशो गम्यमानत्वाद् यादृशः समयेऽभिहितः । ततः किम् ? इत्याह – 'भिक्षितव्यं' याचितव्यं तथाविधं वस्त्विति गम्यते नैव क्रेतव्यं भिक्षुणा भिक्षावृत्तिना, अत्रैवादरख्यापनार्थमाह- क्रयश्च विक्रयश्च क्रयविक्रयं महादोषं, लिङ्गव्यत्ययश्च प्राकृतत्वात्, भिक्षावृत्ति: सुखावहा । भिक्षितव्यमित्युक्तम्, तच्चैककुलेऽपि स्याद् अत आह— 'समुदानं' भैक्ष्यं तच्च उच्छमिव 'उञ्छम्' अन्यान्यवेश्मतः स्तोकस्तोकमीलनाद् एषयेत् 'यथासूत्रम् ' आगमानतिक्रमेण उद्गमैषणाद्यबाधात इति भावः, तत एव 'अनिन्दितम्' अजुगुप्सितं जुगुप्सितजनसम्बन्धि न भवतीत्यर्थः, तथा लाभालाभे सन्तुष्टः, पिण्डस्य पातः - पतनं प्रक्रमात् पात्रेऽस्मिन्निति 'पिण्डपातं ' भिक्षाटनं तत् 'चरेत्' आसेवेत मुनिः, वाक्यान्तरविषयत्वाच्च अपौनरुक्त्यम् ॥ इत्थं पिण्डमवाप्य यथा भुञ्जीत तथाह - 'अलोलः' न सरसान्ने प्राप्ते लाम्पट्यवान्, न 'रसे' मधुरादौ 'गृद्धः' प्राप्तेऽभिकाङ्क्षावान्, कथं चैवंविधः ? “जिन्भादंतो" त्ति दान्तजिह्नः, अत एव 'अमूच्छितः ' सन्निधेरकरणेन, एवंविधश्च 'न' नैव "रसट्ठाए" त्ति रसः - धातुविशेषः स चाऽशेषधातूपलक्षणं ततस्तदुपचयः स्यादिति तदर्थं न भुञ्जीत, किमर्थं तर्हि ? इत्याह — यापना - निर्वाहः स चार्थात् संयमस्य तदर्थं महामुनिः ।। तथा 'अर्चना' पुष्पादिभिः पूजां 'रचनां' निषद्यादिविषयां स्वस्तिकाद्यात्मिकां वा, 'चः' समुच्चये, 'एवः' अवधारणे
अनगारस्य मार्गः ।

Page Navigation
1 ... 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798