Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala
View full book text
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
पञ्चत्रिंशं अनगारमार्गगतिनामकमध्ययनम्।
'न' इत्यनेन सम्बध्यते, 'वन्दनं' प्रतीतं, 'पूजनं वस्त्रादिभिः प्रतिलाभनं, 'तथे ति समुच्चये, ऋद्धिश्च-श्रावकोपकरणादिसम्पत् सत्कारश्च-अर्घप्रदानादिः सन्मानश्च-अभ्युत्थानादिः ऋद्धिसत्कारसन्मानं तन्मनसाऽपि न प्रार्थयेत् ॥ किं पुनः कुर्याद् ? इत्याह-"सुकं झाणं" ति सोपस्कारत्वात् शुक्लध्यानं यथा भवत्येवं ध्यायेद् अनिदानोऽकिश्चनः व्युत्सृष्टकायः 'विहरेत्' अप्रतिबद्धविहारितयेति गम्यते, कियन्तं कालम् ? इत्याह-यावत् 'कालस्य मृत्योः 'पर्ययः' परिपाटी प्रस्ताव इत्यर्थः॥ एवंविधानगारगुणस्थश्च मृत्युसमये यत् कृत्वा यत् फलमवाप्नोति तदाह-"निजहिऊणं" ति परित्यज्य आहारं संलेखनाक्रमेण 'कालधर्मे' आयुःक्षयरूपे उपस्थिते तथा त्यक्त्वा मानुषी "बोंदि" तमुं 'प्रभुः' वीर्यान्तरायापगमतो विशिष्टसामर्थ्यवान् “दुक्खे"ति 'दुःखै' शारीरमानसैर्विमुच्यते ॥ कीदृशः सन् ? इत्याह-निर्ममो निरहङ्कारः, कुतोऽयमीहग् ? यतो वीतरागः, उपलक्षणत्वाद् वीतद्वेषश्च, तथा 'अनाश्रवः' कर्माश्रवरहितः सम्प्राप्तः केवलं ज्ञानं शाश्वतं 'परिनिर्वृतः' अस्वास्थ्यहेतुकर्माभावतः सर्वथा स्वस्थीभूत इति विंशतिसूत्रार्थः ।। २-३-४-५-६-७-८-९-१०-११-१२|१३-१४-१५-१६-१७-१८-१९-२०-२१ ॥ 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥
अनगारस्य
मार्गः।
॥३७५॥
XXXXXXXXXXXX
॥३७५॥
इति श्रीनेमिचन्द्रसूरिसंदृब्धायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायामनगारमार्गगतिनामकं पञ्चत्रिंशमध्ययनं समाप्तम् ॥

Page Navigation
1 ... 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798