Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala
View full book text
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृचिः ।
षत्रिंशं जीवाजीवविभक्तिनामकमध्ययनम्। संसारिजीववक्तव्यता।
॥३८८॥
व्याख्या-स्पष्टम् ॥ २४८ ॥ सम्प्रति कश्चिज्जीवाऽजीवविभक्तेः श्रवणश्रद्धानमात्रेणैव कृतार्थतां मन्येत अतस्तदाशङ्काऽपनोदार्थमाहA इति जीवमजीवे य, सोचा सद्दहिऊण य । सबनयाण अणुमए, रमेजा संजमे मुणी ॥ २४९॥ ___ व्याख्या स्पष्टम् ।। २४९ ।। संयमरतिकरणानन्तरं यद्विधेयं तदाहतओ बहूणि वासाई, सामन्नमणुपालिया । इमेण कमजोएण, अप्पाणं संलिहे मुणी ॥ २५०॥ __ व्याख्या-स्पष्टम् । नवरम्-क्रमेण योगः-तपोऽनुष्ठानरूपो व्यापारः क्रमयोगस्तेन ॥२५०॥ क्रमयोगमेवाहबारसेव उ वासाई, संलेहुकोसिया भवे । संवच्छरं मज्झिमया, छम्मासा य जहन्निया ॥२५१॥ पढमे वासचउक्कम्मि, विगई निजूहणं करे । बिइए वासचउक्कम्मि, विचित्तं तु तवं चरे ॥ २५२॥ एगंतरमायाम, कट्ठ संवच्छरे दुवे । तओ संवच्छरऽद्धं तु, नाइविगिटुं तवं चरे ॥ २५३ ॥ तओ संवच्छरऽद्धं तु, विगिटुंतु तवं चरे। परिमियं चेव आयाम, तम्मि संवच्छरे करे ॥ २५४ ॥ कोडीसहियमायाम, कडु संवच्छरे मुणी । मासद्ध-मासिएणं तु, आहारेणं तवं चरे ॥ २५५॥
व्याख्या-द्वादशैव 'तुः' पूरणे वर्षाणि 'संलेखना' द्रव्यतः शरीरस्य भावतः कषायाणां कृशतापादनमुत्कृष्टा भवति, संवत्सरं मध्यमा, षण्मासान् जघन्यिका ॥ उत्कृष्टायाः क्रमयोगमाह-प्रथमे वर्षचतुष्के 'विकृतिनि!हणं' विकृतित्यागं कुर्यात्, इदं च विचित्रतपसः पारणके, यदाह निशीथचूर्णिकार:-"अन्ने चत्तारि वरिसे विचित्तं तु तवं काउं आयंबिलेण निवीएण वा पारेइ" त्ति । केवलमनेन नियुक्तिकृता च द्वितीये वर्षचतुष्क इदमुक्तम् । अत्र च प्रथमे
1 "अन्यानि चत्वारि वर्षाणि विचित्रं तु तपः कृत्वा आचाम्लेन निर्विकृतिकेन वा पारयति" इति ।
॥३८८॥

Page Navigation
1 ... 787 788 789 790 791 792 793 794 795 796 797 798