Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala
View full book text
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघु
इइ पाउकरे बुद्धे नायए परिनिबुए । छत्तीसं उत्तरज्झाए भवसिद्धीयसम्मए ॥२६८॥ त्ति बेमि ॥ __व्याख्या-'इति' एताननन्तरमुपवर्णितान् , “पाउकरे" त्ति 'प्रादुःकृत्य' कांश्चिदर्थतः काश्चन सूत्रतोऽपि प्रकाश्य 'बुद्धः' केवलज्ञानावगतसकलवस्तुतत्त्वः 'ज्ञातजः' ज्ञातकुलसमुद्भवः, स चेह भगवान महावीरः 'परिनिर्वृतः' निर्वाणं गतः, पत्रिंशद् उत्तराः-प्रधाना अध्यायाः-अध्ययनानि उत्तराध्यायास्तान, भवसिद्धिकानां-भव्यानां सम्मतान्-अभिप्रेतान् , 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥२६८॥ नियुक्तिकार एतन्माहात्म्यमाह-"जे' किर भवसिद्धीया, परित्तसंसारिया य जे भवा । ते किर पढंति एए, छत्तीसं उत्तरज्झाए ॥ १॥ तम्हा जिणपण्णत्ते, अणंतगम-पज्जवेहि संजुत्ते । अज्झाए जहजोगं, गुरुप्पसाया अहि जिजा ॥ २॥" योगः-उपधानादिव्यापारस्तदनतिक्रमेण यथायोगम् ।।
षट्त्रिंशं जीवाजीवविभक्तिनामकमा ध्ययनम् ।
वृत्तिः ।
शास्त्रस्य । माहात्म्य समाप्तिश्च।
॥३९१॥
"ये किक भवसिद्धिकाः परीतसंसारकाश्च ये भव्याः । ते किल पठन्त्येतान् षट्त्रिंशदुत्तराध्यायान् ॥ १॥ तस्माजिनप्रज्ञप्तान अनन्तगमपर्यवः संयुक्तान् । अध्यायान् यथायोगं गुरुप्रसादादधीयेत ॥२॥"
*OXXXOXOXOXOXOXOXOXOXOX
इति श्रीनेमिचन्द्रसूरिविनिर्मितायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां जीवाजीवविभक्तिनामकं षट्त्रिंशमध्ययनं समाप्तम् ॥
॥समाप्तानि चाशेषाण्युत्तराध्ययनानि ॥
॥३९१॥

Page Navigation
1 ... 793 794 795 796 797 798