Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala

View full book text
Previous | Next

Page 766
________________ yay CXCX लोएगदेसे लोए य, भइयवा ते उ खेत्तओ । व्याख्या - लोकस्यैकदेशे लोके च 'भक्तव्याः ' भजनया दर्शनीयाः 'ते' इति स्कन्धाः परमाणवच 'तुः' पूरणे, क्षेत्रतः । अत्र चाविशेषोक्तावपि परमाणूनामेकप्रदेशे एवाऽवस्थानात् स्कन्धविषयैव भजना द्रष्टव्या, ते हि विचित्रत्वात् परिणतेबहुतरप्रदेशोपचिता अपि केचिदेकप्रदेशेऽवतिष्ठन्ते, अन्ये तु सङ्ख्येयेष्वसङ्ख्येयेषु च प्रदेशेषु यावत् सकललोकेऽपि तथाविधाऽचित्तमहास्कन्धवद्भवेयुरिति भजनीया उच्यन्ते । एतो कालविभागं तु, तेसिं वुच्छं चउबिहं ॥ ११ ॥ व्याख्या — ‘अतः' इति क्षेत्र प्ररूपणातोऽनन्तरमिति गम्यते 'कालविभागं तु' कालभेदं पुनः 'तेषां' स्कन्धादीनां वक्ष्ये | 'चतुर्विधं' साद्यनादिसपर्यवसिताऽपर्यवसितभेदेनेति सूत्रार्थः ॥ ११ ॥ इदं च सूत्रं षट्पादम् प्रत्यन्तरेषु तु अन्त्यपादद्वयं न दृश्यत एव । यथाप्रतिज्ञातमाह संत पप्पणादी, अपज्जवसिया वि य । ठिइं पडुच्च साईया, सप्पज्जवसिया विय ॥१२॥ व्याख्या—स्पष्टम् ॥ १२ ॥ सादिसपर्यवसितत्वे च कियत्कालमेषामवस्थिति: ? इत्याहअसंखकालमुक्कोसा, एक्कं समयं जहन्निया । अजीवाण य रूवीणं, ठिई एसा वियाहिया ॥ १३ ॥ व्याख्या—असङ्ख्यकालमुत्कृष्टा, एकं समयं जघन्यका, यत्राऽपि 'असंखकालमुक्कोसं एको समओ जहन्नयं' ति पाठः, तत्रापि लिङ्गव्यत्ययादयमेव संस्कारः, एवमुत्तरत्राऽपि शेषं स्पष्टम् । नवरं 'स्थितिः' प्रतिनियतक्षेत्राऽवस्थानरूपा ॥१३॥ इत्थं कालद्वारमाश्रित्य स्थितिरुक्ता । सम्प्रत्येतदन्तर्गतमेवाऽन्तरमाह - अनंतकालमुक्को, एक्को समओ जहन्नयं । अजीवाण य रूवीणं, अंतरेयं वियाहियं ॥ १४ ॥ XCXCXCXXXCX X क्षेत्रतः कालतश्च रूप्यजीववक्तव्यता ।

Loading...

Page Navigation
1 ... 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798