________________
अत एव बहुप्राणविनाशनं नास्ति ज्योतिःसमं शस्त्रं, यस्मादेवं तस्मात् ज्योतिर्न दीपयेत् ॥ पचनादौ जीवघातो भवति न तु क्रयविक्रययोः, अतो युक्तमेवाऽऽभ्यां निर्वहणमिति कस्यचिदाऽऽशङ्का स्यादत आह— 'हिरण्यं' कनकं 'जातरूपं च ' रूप्यं, चकारोऽनुक्ताऽशेषधनधान्यादिसमुच्चये, मनसाऽपि न प्रार्थयेद्भिक्षुरिति योगः कीदृशः सन् ? समलेटुकाश्चनो विरत: ' क्रयविक्रये ' क्रयविक्रयविषये ॥ किमित्येवम् ? अत आह— क्रीणन् 'ऋयिको भवति' तथाविधेतरलोकसदृश एव भवति, विक्रीणानश्च वणिग् भवति, वाणिज्यप्रवृत्तत्वादिति भावः, अत एव क्रयविक्रये 'वर्त्तमानः' प्रवर्त्तमानो भिक्षुर्भवति न तादृशो गम्यमानत्वाद् यादृशः समयेऽभिहितः । ततः किम् ? इत्याह – 'भिक्षितव्यं' याचितव्यं तथाविधं वस्त्विति गम्यते नैव क्रेतव्यं भिक्षुणा भिक्षावृत्तिना, अत्रैवादरख्यापनार्थमाह- क्रयश्च विक्रयश्च क्रयविक्रयं महादोषं, लिङ्गव्यत्ययश्च प्राकृतत्वात्, भिक्षावृत्ति: सुखावहा । भिक्षितव्यमित्युक्तम्, तच्चैककुलेऽपि स्याद् अत आह— 'समुदानं' भैक्ष्यं तच्च उच्छमिव 'उञ्छम्' अन्यान्यवेश्मतः स्तोकस्तोकमीलनाद् एषयेत् 'यथासूत्रम् ' आगमानतिक्रमेण उद्गमैषणाद्यबाधात इति भावः, तत एव 'अनिन्दितम्' अजुगुप्सितं जुगुप्सितजनसम्बन्धि न भवतीत्यर्थः, तथा लाभालाभे सन्तुष्टः, पिण्डस्य पातः - पतनं प्रक्रमात् पात्रेऽस्मिन्निति 'पिण्डपातं ' भिक्षाटनं तत् 'चरेत्' आसेवेत मुनिः, वाक्यान्तरविषयत्वाच्च अपौनरुक्त्यम् ॥ इत्थं पिण्डमवाप्य यथा भुञ्जीत तथाह - 'अलोलः' न सरसान्ने प्राप्ते लाम्पट्यवान्, न 'रसे' मधुरादौ 'गृद्धः' प्राप्तेऽभिकाङ्क्षावान्, कथं चैवंविधः ? “जिन्भादंतो" त्ति दान्तजिह्नः, अत एव 'अमूच्छितः ' सन्निधेरकरणेन, एवंविधश्च 'न' नैव "रसट्ठाए" त्ति रसः - धातुविशेषः स चाऽशेषधातूपलक्षणं ततस्तदुपचयः स्यादिति तदर्थं न भुञ्जीत, किमर्थं तर्हि ? इत्याह — यापना - निर्वाहः स चार्थात् संयमस्य तदर्थं महामुनिः ।। तथा 'अर्चना' पुष्पादिभिः पूजां 'रचनां' निषद्यादिविषयां स्वस्तिकाद्यात्मिकां वा, 'चः' समुच्चये, 'एवः' अवधारणे
अनगारस्य मार्गः ।