Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala

View full book text
Previous | Next

Page 751
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया al चतुस्त्रिंशं लेश्याख्यमध्ययनम्। लेश्यानां स्पर्श-परिणामद्वारे। सुखबोधाख्या लघुवृत्तिः । व्याख्या स्पष्टम् । नवरम्-"गंधवासाणं" ति गन्धाश्च-कोष्ठपुटपाकनिष्पन्नाः वासाश्च-इतरे गन्धवासाः, इह चैतदङ्गान्येवोपचारादेवमुक्तानि तेषाम् , इह चाऽनुक्तोऽपि गन्धविशेषो लेश्यानां तारतम्येनाऽवसेय इति सूत्रद्वयार्थः ॥ १६-१७ ॥ सम्प्रति स्पर्शमाह जह करगयस्स फासो, गोजिब्भाए व सागपत्ताणं । इत्तो वि अणंतगुणो, लेसाणं अप्पसत्थाणं ॥ १८ ॥ जह बूरस्स वि फासो, नवणीयस्स व सिरीसकुसुमाणं । इत्तो वि अणंतगुणो, पसत्थलेसाण तिण्हं पि॥१९॥ व्याख्या-स्पष्टम् । नवरम्-यथाक्रममप्रशस्तानां प्रशस्तानां च क्रकचादि-बूरादिसमः स्पर्शो वाच्यः॥१८-१९॥ परिणामद्वारमाह तिविहो व नवविहो वा, सत्तावीसइविहिक्कसीओ वा। दुसओ तेयालो वा, लेसाणं होइ परिणामो॥२०॥ व्याख्या-स्पष्टम् । नवरम्-'त्रिविधः' जघन्यमध्यमोत्कृष्टभेदेन, 'नवविधः' यदेषामपि स्वस्थानतारतम्यचिन्तायां प्रत्येकं जघन्यादित्रयेण गुणना, एवं पुनः पुनस्त्रिकगुणनया सप्तविंशतिविधत्वादि भावनीयम् । उपलक्षणश्चैतत् तारतम्यचिन्तायां, सङ्ख्यानियमस्याऽभावात् । तथा च प्रज्ञापना-"कण्हलेसा णं भंते ! कइविहं परिणाम परिणमइ ? गोयमा ! ॥३६९॥ ॥३६९॥ "कृष्णलेश्या भगवन् ! कतिविधं परिणाम परिणमति? गौतम! त्रिविधं वा नवविधं वा सप्तविंशतिविधं वा एकाशीतिविध वाऽपि यावत् त्रिचत्वारिंशं द्विशतविधं वा बहु वा बहुविधं वा परिणामं परिणमति, एवं यावत् शुक्ललेश्या" ।

Loading...

Page Navigation
1 ... 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798