Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala
View full book text
________________
द्वात्रिंश
प्रमादस्थानाख्यमध्ययनम्।
वीतरागस्वरूपम्।
श्रीउत्तरा
दोषमूलत्वादिपरिभावनाः स्वसङ्कल्पविकल्पनास्तासु 'उपस्थितस्य' उद्यतस्येति सम्बन्धः । किम् ? इत्याह-सञ्जायते ध्ययनसूत्रे
|"समय" ति आर्षत्वात् 'समता' माध्यस्थ्यं 'अर्थान्' जीवादीन, चस्य भिन्नक्रमत्वात् 'सङ्कल्पयतश्च' शुभध्यानविषयश्रीनेमिच
तयाऽध्यवस्यतः 'ततः' इति समतायाः "से" 'तस्य' साधोः प्रहीयते कामगुणेषु 'तृष्णा' अभिलाष इति सूत्रार्थः॥१०७॥ न्द्रीया |
ततः स कीदृशः सन् किं विधत्ते ? इत्याहसुखबोधा
सो वीयरागो कयसवकिच्चो, खवेइ नाणावरणं खणेणं। ख्या लघु
तहेव जं दरिसणमावरेइ, जं चंतरायं पकरेइ कम्मं ॥ १०८॥ वृत्तिः ।
व्याख्या-'सः' इति प्रहीणतृष्णो वीतरागो भवति, तथा कृतसर्वकृत्य इव कृतसर्वकृत्यः, प्राप्तप्रायत्वादनेन मुक्तेः ॥३६४॥ क्षपयति ज्ञानावरणं क्षणेन, तथैव यद् दर्शनमावृणोति, यच्च 'अन्तरायं' दानादिविघ्नं प्रकरोति 'कर्म' अन्तरायनामकII मित्यर्थः, इति सूत्रार्थः ॥ ८॥ तत्क्षयाच कं गुणमवाप्नोति ? इत्याह
सवं तओ जाणइ पासई य, अमोहणो होइ निरंतराए ।
अणासवे झाणसमाहिजुत्तो, आउक्खए मुक्खमुवेइ सुद्धे ॥१०९॥ व्याख्या सर्व 'ततः' ज्ञानावरणादिक्षयात् 'जानाति' विशेषरूपतयाऽवगच्छति, 'पश्यति च' सामान्यरूपतया, तथा च 'अमोहनः' मोहरहितो भवति, तथा निरन्तरायोऽनाश्रवः, ध्यान-शुक्लध्यानं तेन समाधिः-परमस्वास्थ्यं तेन युक्तो ध्यानसमाधियुक्तः आयुष उपलक्षणत्वाद् नाम-गोत्र-वेद्यानां च क्षय आयुःक्षयस्तस्मिन् सति मोक्षमुपैति 'शुद्धः' विगतकर्ममल इति सूत्रार्थः॥ १०९ ॥ मोक्षगतश्च यादृशो भवति तदाह
॥३६४॥

Page Navigation
1 ... 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798