Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala

View full book text
Previous | Next

Page 739
________________ श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघु द्वात्रिंश प्रमादस्थानाख्यमध्ययनम्। प्रमादस्य स्थानानि। वृत्तिः । ॥३६३॥ तत्तदोषदुष्टत्वात् सर्वस्याऽप्रीतिभाजनमिति सूत्रद्वयार्थः ॥ १०२-१०३ ॥ पुनरप्यतिदुरन्ततया रागस्य प्रकारान्तरेणोद्धरणोपायाऽभिधानार्थ तद्विपर्यये दोषदर्शनार्थ चेदमाह - कप्पं न इच्छिज्ज सहायलिच्छ, पच्छाणुतावेण तवप्पभावं। एवं विकारे अमियप्पयारे, आवजई इंदियचोरवस्से ॥१०४॥ | व्याख्या-कल्पते-स्वाध्यायादिक्रियासु समर्थो भवतीति कल्प:-योग्यस्तम्, अपेर्गम्यमानत्वात् कल्पमपि, ol किं पुनरकल्पं ? शिष्यादिकमिति गम्यते, न इच्छेत् 'सहायलिप्सुः' ममाऽयं विश्रामणादिसाहाय्यं करिष्यतीत्यभिलाषुकः सन् , तथा पश्चादिति-प्रस्तावाद् व्रतस्याऽङ्गीकाराद् उत्तरकालमनुताप:-किमेतावन्मया कष्टमङ्गीकृतमिति चित्तसन्तापा|त्मकः पश्चादनुतापस्तेन हेतुना उपलक्षणत्वादन्यथा वा 'तपःप्रभावं तपःफलम् इहैवामौषध्यादिलब्धिप्रार्थनेन भवान्तरभोगादिनिदानकरणेन वा नेच्छेदिति प्रक्रमः। किमेवं निषिध्यते ? इत्याह-एवम्' अमुना प्रकारेण 'विकारान्' दोषान् अमितप्रकारानापद्यते इन्द्रियचोरवश्यः, एवं च ब्रुवतोऽयमाशयः–तदनुग्रहबुद्ध्या कल्पं पुष्टालम्बनेन तपःप्रभावं वाञ्छतोऽपि न दोषः । एतेन च रागस्य हेतुद्वयपरिहरणमुद्धरणोपाय उक्तः । उपलक्षणं चैतदीदृशाम्, अन्येषामपि रागहेतूनां परिहारस्य, ततः सिद्धमस्योद्धरणोपायानां तद्विपर्यये च दोषाणामभिधानमिति सूत्रार्थः ॥१०४॥ किं च तओ से जायंति पओअणाई, निमजिउं मोहमहन्नवम्मि। सुहेसिणो दुक्खविणोयणट्ठा, तप्पच्चयं उजमए अरागी॥१०५॥ व्याख्या-ततः' इति विकारापत्तेरनन्तरं "से" तस्य जायन्ते 'प्रयोजनानि' विषयसेवनहिंसादीनि “निमज्जि" ति निमज्जयितुमिव निमज्जयितुं प्रक्रमात् तमेव जन्तुं मोहमहार्णवे, किमुक्तं भवति ?-यैर्मोहमहार्णवे निमग्न इव जन्तुः ||३६३॥

Loading...

Page Navigation
1 ... 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798