________________
F
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
द्वात्रिंश प्रमादस्था| नाख्यमध्ययनम् ।
प्रमादस्य स्थानानि ।
॥३६॥
एमेव भावम्मि गओ पओसं, उवेइ दुक्खोहपरंपराओ। पउहचित्तो य चिणाइ कम्म, जं से पुणो होइ दुहं विवागो ॥९८॥ भावे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण ।।
न लिप्पई भवमझे वि संतो, जलेण वा पुक्खरिणीपलासं ॥ ९९ ॥ व्याख्या-"चक्खुस्स" इत्यादिसूत्राणि अष्टसप्ततिः । तत्रापि चक्षुराश्रित्य त्रयोदश-चक्षुषो रूपं, गृह्यतेऽनेनेति | ग्रहणं, कोऽर्थः ? आक्षेपकं वदन्ति । ततः किम् ? इत्याह-'तद्' रूपं रागहेतुः, 'तुः' पूरणे, मनोज्ञमाहुः, तथा 'तद्'। रूपमेव द्वेषहेतुम् अमनोज्ञमाहुः, ततस्तयोश्चक्षुःप्रवर्त्तने रागद्वेषसम्भवात् तदुद्धरणाशक्तिलक्षणो दोष इति भावः । आह-एवं न कश्चित् सति रूपे वीतरागः स्याद् अत आह–'समस्तु' अरक्तद्विष्टतया तुल्यः पुनर्यः 'तयोः' मनोज्ञेतररूपयोः स वीतराग इव वीतरागः, उपलक्षणत्वाद् वीतद्वेषश्च, इदमुक्तं भवति-न तावत् चक्षुः तयोः प्रवर्तयेत् , कथञ्चित् प्रवर्त्तने च समतामेवावलम्बेतेति ॥ ननु यद्येवं रूपमेव रागद्वेषजनकं ततस्तदुद्धरणार्थिनस्तद्गतैव चिन्ताऽस्तु, | रूपे चक्षुर्न प्रवर्त्तयेद् इत्येवं तु न चक्षुषश्चिन्ता कत्तुं युक्तेत्याशङ्कयाह-रूपस्य चक्षुः गृह्णातीति ग्रहणं वदन्ति, तथा |चक्षुषो रूपं गृह्यत इति ग्रहणं वदन्ति, अनेन च रूपचक्षुषोह्यग्राहकभावदर्शनतः परस्परमुपकार्योपकारकभाव उक्तः, ततो यथा रूपं रागद्वेषकारणं तथा चक्षुरपि इत्युक्तं भवति । अत आह–रागस्य हेतुं प्रक्रमात् चक्षुः सह मनोज्ञेन ग्राह्येण रूपेण वर्त्तते समनोज्ञमाहुः, द्वेषस्य हेतुम् 'अमनोज्ञम्' अविद्यमानमनोज्ञरूपमाहुः॥ इत्थं रागद्वेषोद्धरणोपायमभिधाय एतदनुद्धरणे दोषमाह-रूपेषु यः गृद्धि' रागरूपां उपैति तीब्राम् , अकाले भवम् आकालिकं प्राप्नोति
यदुक्तम्-इच्छा मूर्छा कामः, नेहो गावं ममत्वमभिनन्दः । अभिलाष इत्यनेकानि रागपर्यायवचनानि ॥१॥
*(XOXOXOXXXOXOXOXOXOXOXO
॥३६०॥