________________
उत्तराध्ययन
॥ २६४ ॥
१५
१८
२१
२४
व्याख्या - रागद्वेषौ च द्वौ पापी पापप्रकृतिरूपत्वात्पापकर्मणां ज्ञानावरणादीनां प्रवर्त्तकौ यो भिक्षुः रुणद्धि तिरस्कुरुते नित्यं स नास्ते न तिष्ठति मण्डले संसारे । एवमुत्तरसूत्रेष्वपि नित्यमित्यादि व्याख्येयम् ॥ ३॥ मूलम् - दंडाणं गारवाणं च, सल्लाणं च तियं तियं । जे भिक्खू जयई निश्चं, से न अच्छइ मंडले ॥ ४॥ व्याख्या - दण्डानां चारित्रसर्वखापहारिणां त्रिकं मनोवाक्कायदण्डरूपं, गौरवाणां च त्रिकं ऋद्धिरससातगौरवरूपं, शल्यानां त्रिकं मायानिदानमिध्यात्वशल्यलक्षणं, यो भिक्षुस्त्यजति ॥ ४ ॥
मूलम् - दिवे अ जे उवसग्गे, तहा तेरिच्छमाणु से । जे भिक्खू सहई निच्चं, से न अच्छइ मंडले ॥ ५ ॥
व्याख्या– दिव्यांश्च हास्य १ प्रद्वेष २ परीक्षा ३ पृथग्विमात्राभि ४ देवैः कृतानुपसर्गाननुकूल प्रतिकूलक्षोभहेतून्, अत्र पृथग्विमात्राशब्देन हास्यादीनां द्विकसंयोगादय उच्यन्ते, ततो यदि कोपि हास्यद्वेषाभ्यां समुदिताभ्यां, हास्यपरीक्षाभ्यां वा, द्वेषपरीक्षाभ्यां वा, हास्यद्वेषपरीक्षाभिर्वा समुदिताभिरुपसर्गान् करोति तदा पृथग्विमात्रयेत्युच्यते । तथा तेरिच्छत्ति' तिरश्चामेते भय १ प्रद्वेषा २ ऽऽहारहेत्व ३ पयलयनरक्षा ४ हेतोस्तैः क्रियमाणत्वात्तैरश्वाः, तथा 'माणुसेत्ति' मानुषाणामेते हास १ प्रद्वेष २ परीक्षा ३ कुशीलप्रतिसेवनाहेतो ४ स्तैर्विधीयमानत्वान्मानुषकाः, द्वन्द्वे तैरश्चमानुषकास्तानुपलक्षणत्वात् आत्मसंवेदनीयांश्च घट्टन १ प्रपतन २ स्तम्भन ३ संश्लेषणो ४ द्भवान्, वात १ पित्त २ श्लेष्म ३ सन्निपातो ४ द्भवान् वा यो भिक्षुः सहते सम्यगध्यास्ते ॥ ५ ॥
एकत्रिंशमध्ययनम्.
(३१)
गा ४-५
UTR-3