Book Title: Uttaradhyayanam Sutram Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
उत्तराध्ययन ॥ ४२१ ॥
तत्र मनोरम सुमनोराजिविराजी रराज मुनिराजः । श्रीआनन्दविमल गुरुरमरतरुर्नन्दन इवोच्चैः ॥ ६ ॥ शुद्ध क्रियां दधौ यः सुधात्रतत्रततिमिव मरुदृक्षः । कल्पतरोः सौरभमिव यस्य यशो व्यानशे विश्वम् ॥ ७॥ तत्पट्टगगनदिनमणिरजनिष्ट जनेष्टदानदेवमणिः । श्रीविजयदानमुनिमणिरनणुगुणाधरितरज निमणिः ॥ ८ ॥
श्रीमान् जगद्गुरुरिति प्रथितस्तदीय- पट्टे स हीरविजयाह्नयसूरिरासीत् ।
योऽष्टाऽपि सिद्धिललनाः सममालिलिङ्गः, तत्स्पर्द्धयेव दिगिभांश्च यदीयकीर्तिः ॥ ९ ॥ श्रीमानक ब्बरनृपाम्बुधरोधिगम्य, श्रीसूरिनिर्जरपतेरिह यस्य वाचम् । जन्तु ब्रजानभयदान जलैरनल्पै - रप्रीणयत्पटहवादनगर्जिपूर्वम् ॥ १० ॥ तत्पट्टभूषणमणिर्गणिलक्ष्मीकान्तः, सूरिर्वभौ विजयसेन इति प्रतीतः । योऽकन्वराधिपसमे द्विजपैर्यदीय- गोभिर्जितैर्गुरुरपि द्युतिमानमानि ॥ ११ ॥ विजयतिलकः सूरिः पट्टं तदीयमदीदिप- दिनकर इव व्योमस्तोमं हरंस्तमसां क्षणात् । प्रसृमरमहाः पद्मोलासावहो जडतापहो, विदलितमहादोषः क्लृप्तोदयः सुदिनश्रियाम् ॥ १२ ॥
१ श्रीमानकच्चरनृपाम्बुधरोपि यस्य, श्रीसूरिनिर्जरपतेरधिगभ्य वाचम् | "घ" पुस्तके ॥
UTR-3

Page Navigation
1 ... 421 422 423 424 425 426 427 428