Book Title: Uttaradhyayanam Sutram Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
उत्तराध्ययन
॥ ४२३ ॥
तेषां शिष्याणुरिमां भावविजयवाचकोऽलिखदृत्तिम् । खपरावबोधविधये स्वल्पधियामपि सुखावगमाम् ॥ १९ ॥ निधिवसुरसवसुधा [१६८९] मितवर्षे श्रीरोहिणी महापुर्याम् । सोऽस्याः प्रथमादर्श स्वयमेव प्रापयत्सिद्धिम् ॥ २० ॥ गुणगण सुरतरुसुरगिरिकल्पैस्तस्याग्रजैः सतीभ्यश्च । श्रीविजयहर्ष कृतिभिर्विदधे साहाय्यमिह सम्यक् ॥ २१ ॥ अनुसृत्य पूर्ववृत्तीर्लिखितायामपि यदत्र दुष्टं स्यात् । तच्छोध्यं मयि कृत्वा कृपां कृतीन्द्रैः प्रकृतिसरलैः ॥ २२ ॥ श्रीशङ्खेश्वरपार्श्वप्रभुप्रभावात् प्रभूतशुभभावात् । आचन्द्रार्क नंन्दतु वृत्तिरसौ मोदयन्ती ज्ञान् ॥ २३ ॥ शान्तिं तुष्टिं पुष्टिं श्रेयः सन्तानसौख्यकमलाश्च । व्याख्यातृश्रोतॄणां वृत्तिरसौ दिशतु मङ्गलैकगृहम् ॥ २४ ॥ ससूत्रायामिह लोक-संख्या संख्याय निर्मिता । शंते द्वे पञ्चपञ्चाशे, सहस्राणि च षोडश ॥ २५ ॥ " सूत्रग्रन्था [ २००० ] वृत्तिग्रन्था [ १४२५५ ] उभयं [ १६२५५ ]”
१ श्री रोहिणीपुरि महद्ध ॥ इति "घ" पुस्तके ॥ २ पञ्चपञ्चाशे शते द्वे, "घ" पुस्तके |
Printed by Ramchandra Yesu Shedge, at the Nirasyasagar Press, 23, Kolbhat Lane, Bombay. Published by Vallabhadas Tribhuvandas Gandhi, Secretary, Jina Atmananda Sabha, Bhavanagar
UTR-3

Page Navigation
1 ... 423 424 425 426 427 428