Book Title: Uttaradhyayanam Sutram Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
उत्तराध्ययन
॥४१९॥
पत्रिंशमध्ययनम्. गा २६६
* मूलम्-इइ पाउकरे बुद्धे, नायए परिनिव्वुए। छत्तीसं उत्तरज्झाए, भवसिद्धियसंमएति बेमि ॥ २६६॥
___ व्याख्या-इति एताननन्तरोक्तान् ‘पाउकरत्ति' प्रादुष्कृत्य कांश्चिदर्थतः कांश्चित्तु सूत्रतोऽपि प्रकाश्य बुद्धः केवलज्ञानावगतसकलवस्तुतत्त्वो ज्ञातजो ज्ञातकुलोद्भवः स चेह श्रीवर्द्धमानखामी परिनिर्वृतो निर्वाणं गतः, यद्वा 'पाउकरेत्ति' प्रादुरकार्षीत् प्रकाशितवान् शेषं प्राग्वन्नवरं परिनिर्वृतः कषायादितपोपशमात्स्वस्थीभूतः । कान् प्रादुरका दित्याह-पत्रिंशदुत्तराः प्रधाना अध्याया अध्ययनानि उत्तराध्यायास्तान् , भवसिद्धिकानां भव्यानां संमतानभिप्रेतान् । इति परिसमाप्तौ ब्रवीमीति प्राग्वदिति सूत्रार्थः ॥ २६६ ॥ इति षट्त्रिंशमध्ययनम् ॥ ३६ ॥
धर्मकल्पद्रुमस्कन्धस्यास्य श्रुतस्कन्धस्य नियुक्तिकारोऽप्येवं माहात्म्यमाहमूलम्-जे किर भवसिद्धिआ,परित्तसंसारिआ य जे भवा। ते किर पढंति एए, छत्तीसं उत्तरज्झाए ॥१॥ ___ व्याख्या-अत्र भवत्ति' भव्या आसन्नाक्षिप्तसिद्धयो रत्नत्रयाराधका भिन्नग्रन्थय इत्यर्थः, भवसिद्धिकशब्दस्तु सामान्येन भव्यत्वार्थः ॥१॥ मूलम्-जे हुंति अभवसिद्धि, गंठिअसत्ता अणंतसंसारी। ते संकिलिहकम्मा,अभविआ उत्तरज्झाए ।।
व्याख्या-'गंठिअसत्तत्ति' ग्रन्थिकसत्त्वा अभिन्नग्रन्थय इत्यर्थः ॥ 'अभविअत्ति' अभव्या अयोग्या उत्तराध्याये उत्तराध्ययनपठने ॥ २ ॥ ततः किं कार्यमित्याह
UTR-3

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428