Book Title: Uttaradhyayanam Sutram Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 422
________________ उत्तराध्ययन ॥४२०॥ ट्त्रिंशमध्ययनम्. मूलम् तम्हा जिणपण्णत्ते, अणंतगमपजवेहिं संजुत्ते। अज्झाए जहजोगं, गुरुप्पसाया अहिजिजा॥३॥ ___ व्याख्या-तस्माजिनप्रज्ञप्ताननन्तैर्गमैरथमेदैः पर्यवैः शब्दपर्यायैः संयुक्तान् अध्यायान् उत्तराध्ययनानि यथायोगं योग उपधानाधुचितक्रिया तदनतिक्रमेण गुरुप्रसादादधीयेत पठेन्न तु प्रमादं कुर्यादित्यर्थः । गुरुप्रसादाभिधानं चेह श्रुताध्ययनार्थिना गुरवोऽवश्यं प्रसाद्या इति ख्यापनार्थमिति गाथात्रयार्थः ॥३॥ मूलम्-जस्साढत्ता एए, कहवि समप्पंति विग्घरहिअस्स।सो लखिजइ भयो, पुत्वरिसी एव भासंति ४ व्याख्या स्पष्टा ॥ ४ ॥ इति सम्पूर्णा श्रीउत्तराध्ययनसूत्रवृत्तिः ॥ ॥अथ प्रशस्तिः ॥ अनन्तकल्याणनिकेतनं तं, नमामि शङ्केश्वरपार्श्वनाथम् । यस्य प्रभावाद्वरसिद्धिसौध-मध्यास्त निर्विघ्नमसौ प्रयत्नः१ श्रिया जयन्तींद्युतिमैन्दवींद्रा-ग्मुदाभिवन्दे श्रुतदेवतांताम्।प्रसादमासाद्य यदीयमेषा,वृत्तिर्मया मन्दधियापि तेनेर सत्कीर्त्तिलक्ष्मीपरिवर्द्धमान,श्रीवर्द्धमानं जिनराजमीडे।पुनाति लोकं सुरसार्थशाली, यदागमो गाङ्ग इव प्रवाहः॥३॥ तच्छिष्यमुख्यसकलर्द्धिपात्रं, श्रीगौतमो मे शिवतातिरस्तु।गणी सुधर्मा च सतां सुधर्मा-वहोस्तु वीरप्रभुदत्तपट्टः ४ जम्बूद्वीपे सुरगिरिवि चन्द्रकुलं विभाति तद्वंशे । मेरो नन्दनवनमिव तस्मिन्नन्दति तपागच्छः ॥५॥ UTR-3

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428