Book Title: Uttaradhyayanam Sutram Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
उत्तराध्ययन
॥ ४१८ ॥
१५
१८
२१
२४
धिनोरपि सतोः । तथा समुच्चये, चः पूरणे, निमित्तमतीतादि तद्विषये भवति प्रतिसेवी अपुष्टालम्बनेऽपि तद्भाषणात्, एताभ्यां कारणाभ्यां आसुरीं भावनां करोति ॥ २६४ ॥ तथा
मूलम् - सत्थग्गहणं विसभक्खणं च जलणं च जलप्पवेसो अ । अणायारभंड सेवा जम्मणमरणाणि बंधंति ॥ २६५ ॥
व्याख्या— शस्त्रस्य ग्रहणं वधार्थमात्मनि व्यापारणं शस्त्रग्रहणं, विषभक्षणं, चशब्द उक्तसमुच्चये, ज्वलनं च दीपनमात्मन इति शेषः, जलप्रवेशश्च चशब्दोऽनुक्तभृगुपातादिपरिग्रहार्थः । आचारः शास्त्रविहितो व्यवहारस्तेन भाण्डमुपकरणं आचारभाण्डं न तथा अनाचारभाण्डं तस्य सेवा हास्यमोहादिभिः परिभोगोऽनाचारभाण्डसेवा च, चस्य गम्यत्वादेतानि कुर्वन्तो जन्ममरणानि उपचारात्तन्निमित्तकर्माणि बघ्नन्ति, संक्लेशहेतुतया शस्त्रग्रहणादीनामनन्तभवनिबन्धनत्वात् । अनेन चोन्मार्गप्रतिपत्त्या मार्गविप्रतिपत्तिराक्षिप्ता तथा चेहार्थतो मोही भावनोक्ता । यतस्तलक्षणमिदं - "उम्मग्गदेसओ मग्गनासओ मग्गविपडिवत्ती अ । मोहेण य मोहित्ता समोहणं भावणं कुणइ ॥ १ ॥ " फलं चासामनन्तरं परम्परं चैवं- " एयाओ भावणाओ, भाविता देवदुग्गइं जंति । तत्तो अ चुआ संता, पडंति भवसागरमणंतं ॥ १ ॥ " इहानन्तरं फलं देवदुर्गतिगमनं परम्परं तु भवान्धिभ्रमणमिति सूत्रार्थः ॥ २६५ ॥ संप्रत्युपसंहारद्वारेण शास्त्रस्य माहात्म्यमाह—
पटूत्रिंश
मध्ययनम्.
(३६)
गा २६५
UTR-3

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428