Book Title: Uttaradhyayanam Sutram Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 419
________________ उत्तराध्ययन ॥ ४१७॥ ३ १२ पपाते समीपावस्थानरूपे 'पगासवाईत्ति' गुर्वादेः समित्यादौ कथञ्चित्स्खलितं प्रकाशं प्रकटं वदतीति प्रकाशवादी । सङ्घस्य यथा - बहवः श्वशृगालादिसङ्घाः सन्ति तथायमपि तत्कोऽसौ सङ्घः ? इत्यादि । साधूनां यथा - " अविसरणा तुरिअगई, अणाणुवित्ती इमे गुरुणंषि । खणमेत्तपीइरोसा, गिहिवच्छलगाय संचइआ ॥ १ ॥ " अविषहना मिथोऽसहना अत एव पृथक् २ तिष्ठन्ति यतयः, अत्वरितगतयो मन्दगतयस्ततो बकवृत्तिरियमेषामिति, गुरूणामपि अननुवर्त्तिनः गुरुभ्योऽपि पृथक् विहारित्वात्, क्षणमात्रप्रीतिरोषाः, अयं भावः - मुनयो हि यस्य गुणान् वीक्ष्य प्रियन्ते तस्याप्यतिचारादिकं दोषं न क्षमन्ते ततो दोषान्वेषी क्षणमात्रप्रीतिरोषा एते इति वक्ति, तथा गृहिवत्सलका विरक्ता अपि गृहिणां धर्म प्रतिपादयन्तीति, सञ्चयिकाञ्चोपधिधारित्वात् इत्थं ज्ञानादीनामवर्णवादी । तथा मायी स्वखभावनिगूहनादिमान् आह च - " गूहइ आयसहावं, घायइ अ गुणे परस्स संते वि । चोरोव ससंकी, गूढायारो वितहभासी ॥ १ ॥ " ईदृशः किल्विबिकीं भावनां करोति ॥ २६३ ॥ इदानीं विचित्रत्वात्सूत्रकृतेर्मोही प्रस्तावेऽप्यासुरीहेतू नाह मूलम् - अणुबद्धरोसपसरो, तह य निमित्तम्मि होइ पडि सेवी । एएहिं कारणेहिं, आसुरिअं भावणं कुणइ व्याख्या - अनुबद्धोऽव्यवच्छिन्नो रोषप्रसरो यस्य स तथा, तत्खरूपं चैवं - "निचं बुग्गहसीलो, काऊणं नाणुतप्पए पच्छा । न य खामिओ पसीअई, अवराहीणं दुवेहंपि ॥ १ ॥ " अत्र 'दुवे पित्ति' द्वयोः स्वपरयोरपरा षटूत्रिंश. मध्ययनम्. गा २६४ UTR-3

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428