Book Title: Uttaradhyayanam Sutram Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
उत्तराध्ययन ॥४१६॥
षट्त्रिंशमध्ययनम्
२६३
व्याख्या-'मंताजोगंति' सूत्रत्वान्मंत्राश्च योगाश्च तथाविधद्रव्यसंयोगा मंत्रयोगं तत्कृत्वा भूत्या भस्मना उपलक्षणत्वात् मृदा सूत्रेण च कर्म रक्षार्थ क्रिया भूतिकर्म चशब्दात्कौतुकादि च 'जे पउंजंतित्ति' सूत्रत्वात् यः प्रयुके सातरसचिहेतोः साताद्यर्थमित्यर्थः, अनेन पुष्टालम्बने निःस्पृहस्यैतत्कुर्वतोऽपि न दोषः किन्तु जिनशासनप्रभावनालक्षणो गुण एवेति सूचितम् । स आभियोगी भावनां करोति ॥ २६२ ॥
मूलम्-नाणस्स केवलीणं, धम्मायरिअस्स संघसाहणं ।
___माई अवण्णवाई, किविसि भावणं कुणइ ॥ २६३ ॥ व्याख्या-ज्ञानस्य श्रुतादेरवर्णवादी यथा-"काया वया य तेचिअ, ते चेव पमायमप्पमाया य । मोक्खाहिगारिआणं, जोइसजोणीहि किं कजं ॥१॥" अत्र श्रुते त एव कायाः तान्येव च व्रतानि पुनः पुनर्निरूप्यन्ते, तावेव प्रमादाप्रमादौ च, ततः पुनरुक्तिदोषाघातमिदम् । किञ्च श्रुतं मोक्षार्थ पठ्यते मोक्षाधिकारिणां च ज्योतिर्योन्यादिभिः किं कार्य ? यदत्र तानि प्ररूप्यन्त इति । केवलिनां यथा-ज्ञानदर्शनयोः क्रमोपयोगे परस्परावरणता, युगपदुपयोगे चैक्यापत्तिस्ततः कथमिदं घटते ? इत्यादि । धर्माचार्यस्य यथा-"जच्चाईहिं अवण्णं, भासइ वट्टइ नयावि उववाए । अहिओ छिद्दप्पेही, पग्गासवाई अणणुकूलो ॥१॥" 'जचाहिंति' जात्यादिभिरवर्ण भाषते, वर्तते न चाप्यु
२४
UTR-3

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428