Book Title: Uttaradhyayanam Sutram Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 416
________________ उत्तराध्ययन ॥४१४॥ षट्त्रिंशमध्ययनम्. गा २५९. २६० मूलम्-बालमरणाणि बहुसो, अकाममरणाणि चेव बहुआणि । ___ मरिहंति ते वराया, जिणवयणं जे न याणंति ॥ २५९ ॥ व्याख्या-बालमरणैरुद्धन्धनादिनिबन्धनैर्बहुशो बहुवारं अकाममरणश्चैवानिच्छारूपमरणैर्बहुभिः सुव्यत्ययः प्राकृतत्वात् मरिष्यन्ति ते वराका जिनवचनं ये न जानन्ति, उपलक्षणत्वान्नानुतिष्ठन्ति चेति सूत्रद्वयार्थः ॥२५९॥ यतश्चैवमतो जिनवचनं भावतः कर्त्तव्यं, तत्र चातिचारसम्भवे आलोचना तच्छ्रवणयोग्यानां श्रावणीया, ते च यहेतुभिर्भवन्ति तानाहमूलम्-बहु आगमविण्णाणा, समाहिउप्पायगा य गुणगाही।एएण कारणेणं, अरिहा आलोअणं सोउं॥ व्याख्या-बहुः सूत्रतोऽर्थतश्च स चासावागमश्च बबागमस्तत्र विशिष्टं ज्ञानं येषां ते बबागमविज्ञानाः, समाधे. रुत्पादका ये देशकालाभिप्रायादिविज्ञतया समाधिमेव मधुरवाक्यादिभिरालोचकानामुत्पादयन्ति, चशब्दो भिन्नक्रमस्ततो गुणग्राहिणश्चोपबृंहणार्थ परेषां सद्भूतगुणग्रहणशीलाच, 'एएण कारणेणंति' एतैः कारणैः अहा॑ भवन्त्याचार्यादय आलोचनां श्रोतुमिति सूत्रार्थः ॥ २६ ॥ इत्थमनशनस्थेन यत्कृत्यं तदुपदर्य सम्प्रति पूर्वोद्दिष्टकन्दर्पादिभावनानां खरूपमाह UTR-3

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428