Book Title: Uttaradhyayanam Sutram Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
उत्तराध्ययन ॥४१२॥
षट्त्रिंशमध्ययनम्
गा २५४२५६
भविस्सइत्ति, तस्स य विसंवाए नो सम्म नमुक्कारमाराहेइ” इति सूत्रषट्कार्थः ॥ २५३ ॥ इत्थं प्रपन्नानशनस्याप्यशुभभावनानां मिथ्यात्वादीनां चानर्थहेतुत्वं तद्विपर्ययाणां च शुभहेतुतामाह
मूलम्-कंदप्पमाभिओगं च, किचिसि मोहमासुरत्तं च ।
एयाओ दुग्गईओ, मरणम्मि विराहया हंति ॥ २५४॥ व्याख्या-'कंदप्पंति' कन्दर्पभावना एवमाभियोग्यभावना किल्विषभावना मोहभावना आसुरभावना च, एता भावना दुर्गतिहेतुत्वात् दुर्गतय एतद्विधातृणां दुर्गतिरूपेषु तथाविधदेवनिकायेष्वेवोत्पादात् , मरणे मरणकाले विराधिका भवन्ति सम्यग्दर्शनादीनामिति गम्यते, इह च मरण इत्यभिधानं पूर्वमेतत्सत्तायामपि प्रान्तकाले शुभभावनाभावे सुगतिरपि स्यादिति सूचनार्थम् ॥ २५४ ॥ मूलम्-मिच्छादसणरत्ता, सनिआणा हु हिंसगा। इइ जे मरंति जीवा,तेसिं पुण दुल्लहा बोही ॥२५५॥ __ व्याख्या-मिथ्यादर्शनमतत्त्वे तत्त्वाभिनिवेशस्तत्र रक्ता आसक्ता मिथ्यादर्शनरक्ताः सनिदानाः कृतभोगप्रार्थनाः हुः पूत्तौ हिंसका जीवोपमईकारिण इतीत्येवंरूपा ये घियन्ते जीवास्तेषां पुनर्दुर्लभा बोधिर्जिनधर्मावाप्तिः ॥ २५५ ॥ मूलम् सम्मदंसणरत्ता, अनिआणा सुक्कलेसमोगाढा। इइ जे मरंति जीवा, सुलभा तेसिं भवे बोही॥ व्याख्या-"सुक्कलेसमोगाढत्ति" शुक्ललेश्यामवगाढाः प्रविष्टाः ॥ २५६ ॥
UTR-3

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428