Book Title: Uttaradhyayanam Sutram Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 415
________________ उत्तराध्ययन ॥४१३॥ पत्रिंशमध्ययनम्. गा२५७२५८ Yu मूलम्-मिच्छादसणरत्ता, सनिआणा कण्हलेसमोगाढा । इअ जे मरंति जीवा, तेसिं पुण दुल्लहा बोही ॥ २५७ ॥ व्याख्या-स्पष्टम् , ननु पुनरुक्तत्वादनर्थकमिदं सूत्र, नैवं विशेषज्ञापकत्वादस्य, विशेषश्चायं-ताशे संक्लेशे सत्येव दुर्लभबोधित्वं, सामान्येन तु पूर्वोक्तविशेषणविशिष्टानामपि तद्भवे भवान्तरे वा बोधिलाभो दृश्यतेऽपीति विशेषसूचकत्वादस्य न पौनरुक्त्यम् । इह चाद्येन सूत्रेण कन्दर्पादिभावनानां दुर्गतिरूपानर्थस्य हेतुत्वमुक्तं, अर्थाच्छुभभावनानां च सुगतिरूपार्थस्य । द्वितीयेन मिथ्यात्वरक्तादीनां दुर्लभबोधित्वमनर्थ उक्तः, तृतीयेन सम्यक्त्वरक्तानां सुलभबोधित्वं शुभार्थः, चतुर्थेन तूक्तरूपो विशेषः सूचित इति सूत्रचतुष्कार्थः ॥ २५७ ॥ जिनवचनाराधनमूलमेव संलेखनादि श्रेयस्ततोऽन्वयव्यतिरेकाभ्यां तन्माहात्म्यमाह मूलम्-जिणवयणे अणुरत्ता, जिणवयणं जे करिंति भावेणं ।, अमला असंकिलिट्टा, ते होंति परित्तसंसारी ॥ २५८ ॥ व्याख्या-'अमलत्ति' श्रद्धामालिन्यहेतुमिथ्यात्वादिभावमलरहिताः, तथाऽसंक्लिष्टा रागादिसंक्लेशमुक्ताः 'परि*त्तसंसारित्ति' परित्तः परिमितः स चासौ संसारश्च परित्तसंसारः सोऽस्ति येषां ते परित्तसंसारिणः ॥ २५८ ॥ UTR-3

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428