Book Title: Uttaradhyayanam Sutram Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 413
________________ उत्तराध्ययन ॥४१॥ षटूत्रिंशमध्ययनम्, व्याख्या-एकेन चतुर्थलक्षणेन तपसा अन्तरं व्यवधानं यस्मिंस्तदेकान्तरं आयामं आचाम्लं कृत्वा संवत्सरौ द्वौ, ततः संवत्सरार्द्ध मासषदं तुः पूर्ती न नैवातिविकृष्टमष्टमदशमादि तपश्चरेत् ॥ २५१ ॥ ततः संवत्सरार्द्ध तुः एवकारार्थे 'विगिळं तुत्ति' विकृष्टमेव तपश्चरेत् , अत्रैव विशेषमाह-'परिमिरं चेवत्ति' परिमितमेव खल्पमेव आचाम्लं,द्वादशे हि वर्षे निरन्तरमाचाम्लमिह तु चतुर्थादिपारणक एवेति परिमितमित्युक्तं,तस्मिन् द्विधा विभज्योक्ते | संवत्सरे कुर्यात्॥२५२॥कोट्यौ अग्रे प्रत्याख्यानाद्यन्तरूपे सहिते मीलिते यस्मिंस्तत्कोटीसहितं,अयं भावः-विवक्षितदिने | आचाम्लं कृत्वा पुनर्द्वितीयेऽह्रि आचाम्लमेव प्रत्याख्याति ततः प्रथमस्य पर्यन्तकोटिद्धितीयस्य प्रारम्भकोटिरुभे अपि मीलिते भवतस्ततस्तकोटीसहितं स्यात् , इदृशं निरन्तरमित्यर्थः, आचाम्लं कृत्वा संवत्सरे प्रक्रमात् द्वादशे मुनिः ‘मासत्ति' मासिकेन अर्द्धमासिकेन वा 'आहारेणंति' आहारप्रत्याख्यानेन तप इति प्रस्तावाद्भक्तपरिज्ञादिकमनशनं चरेत् । निशीथचूर्णावुक्तः संप्रदायश्चायमत्र-“दुवालसमं वरिसं निरंतरं हीअमाणं उसिणोदएणं आयंबिलं करेइ, तं कोडीसहि भण्णइ जेणायंबिलस्स कोडी कोडीए मिलइ, जहा पदीवस्स बत्ती तिल्लं च समं निट्ठवइ तहा RK बारसमे वरिसे आहारं परिहावेइ जहा आहारसलेहणाए आउअं च समं निट्ठवइ । एत्य बारसमस्स वासस्स पच्छिमा जे चत्तारि मासा तेसु तेल्लगंडूसे निसीटुं धरेउं खेल्लमल्लगे णिच्छुहइ, मा अइरुक्खत्तणओ मुहजंतविसंवाओ १६ UTR-3

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428