________________
उत्तराध्ययन
॥ २७५ ॥
३
१२
पादाप्रमार्जनम् ॥ १५ ॥ विकालेपि महच्छब्दकरणम् ॥ १६ ॥ कलहकरणम् ॥ १७ ॥ झंझा गणभेदस्तत्करणम् ॥ १८ ॥ सूर्योदयादारभ्यास्तं यावद्भोजनम् ॥ १९ ॥ एषणासमितेरपालनम् ॥ २० ॥ पु यो भर्य पालनज्ञानत्यागैः ॥ १४ ॥
मूलम् - इक्कीसाए सबलेसु, बावीसाए परीसहे । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले १५
व्याख्या - एकविंशतौ शबलयन्ति कर्बुरीकुर्वन्ति चारित्रमिति शबलाः क्रियाविशेषास्तेषु ते चामी - हस्तकर्म कुर्वन् शबलः, अत्र क्रियाक्रियावतोः कथञ्चिदभेदाभ्युपगमादेवमुच्यते, एवं सर्वत्र ॥ १ ॥ अतिक्रमव्यतिक्रमातिचारैमैथुनं सेवमानः ॥ २ ॥ रात्रौ भुञ्जनः ॥ ३ ॥ आधाकर्म ४ राजपिण्ड ५ क्रीत ६ प्रामित्या ७ भ्याहता ८ च्छेद्यानि ९ भुञ्जानः, तत्र प्रामित्यमुद्धारकगृहीतं, अभ्याहतं स्वपरग्रामादेरानीतं, आच्छेद्यमुद्दाल्य गृहीतम् । प्रत्याख्यातभिक्षां भुञ्जनः ॥ १० ॥ षण्मासान्तर्गणागणं संक्रामन् ॥ ११ ॥ मासान्तस्त्रीन् दकलेपान् कुर्वाणः, तत्रार्द्धजङ्घादघ्ने पयस्यऽवगाद्यमाने संघट्टः, नाभिद्वयसे पयसि तु लेपः, नाभेरुपरि तु जले प्राप्ते लेपोपरि कथ्यते । तथा मासान्तस्त्रीण्यपराधप्रच्छादनरूपाणि मायास्थानानि कुर्वन् ॥ १२ ॥ उपेत्य प्राणातिपातं कुर्वन् ॥ १३ ॥ उपेत्य मृषा वदन् ॥ १४ ॥ उपेत्यादत्तमाददानः ॥ १५ ॥ अव्यवधानायां सचित्तपृथ्यां ऊर्द्धावस्थानशयनोपवेशनानि कुर्वन् ॥ १६ ॥ एवं - संस्निग्धायां सचित्तरजोव्याप्तायां च भुवि सचित्तशिलादौ घुणादिजीवावासे काष्ठादौ
एकत्रिंशमध्ययनम्.
गा १५
UTR-3