Book Title: Uttaradhyayanam Sutram Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 390
________________ उत्तराध्ययन ॥३८८॥ पत्रिंशमध्ययनम्. गा १०४१०७ मूलम्-असंखकालमुक्कोसं, अंतोमुहत्तं जहन्नगं । विजढम्मि सए काए, पणगजीवाण अंतरं ॥१०४॥ व्याख्या-इह हि कश्चिद्वनस्पतिभ्यो निर्गत्य पृथ्व्यादिषु भ्रान्त्वा भूयस्तत्रासंख्यकालादेवोत्पद्यते, वनस्पति विना सर्वेषामपि कायस्थितेरसंख्येयत्वादत एवोत्कृष्टमप्यन्तरमसंख्यकालमानमेवोक्तम् ॥ १०४ ॥ ___ 'एएसिं वण्णओ चेव' इत्यादि प्राग्वत् ॥ १०५ ॥ प्रकृतमुपसंहरन्नुत्तरग्रन्थसम्बन्धमाह ॥ मूलम्-इच्चेते थावरा तिविहा, समासेण विआहिआ। एत्तो उ तसे तिविहे, वोच्छामि अणुपुत्वसो ___ व्याख्या-इत्येतेऽनन्तरोक्ताः स्थावरात्रिविधाः समासेन संक्षेपेण व्याख्याताः, अतः स्थावरविभक्तेरनन्तरं तु पुनस्त्रसांस्त्रिविधान् वक्ष्यामि आनुपूर्येति सूत्रपञ्चदशकार्थः ॥ १०६ ॥ मूलम्-तेउ वाऊ अ बोधवा, उराला य तसा तहा। इच्चेते तसा तिविहा, तेसिं भेए सुणेह मे१०७ व्याख्या-तेजोयोगात्तेजांसि अग्नयो वायवश्च बोधव्याः, उदारा एकेन्द्रियापेक्षया प्रायः स्थूला द्वीन्द्रियाद्या इत्यर्थः, चः समुच्चये, त्रसास्तथा तेनागमोक्तप्रकारेण इत्येते त्रस्यन्तीति चलन्तीति त्रसास्त्रिविधाः । तत्र तेजोवायूनां स्थावरनामकर्मोदयेऽपि गत्यपेक्षया त्रसत्वं, द्वीन्द्रियादीनां च त्रसनामकर्मोदयवतां लब्धितोऽपि त्रसत्वं, तेषां भेदान् शृणुत मे कुर्वत इति शेषः ॥ १०७ ।। तत्र तेजोजीवानाह १ एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥ १०५॥ UTR-3

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428