________________
उत्तराध्ययन ॥२७४॥
एकत्रिंशमध्ययनम्.
स्त्यागो, ब्रह्माष्टादशधा मतम् ॥१॥" तथा ज्ञाताध्ययनेषु उत्क्षिप्तज्ञातादिष्वेकोनविंशतो, यदाहुः-“उक्खित्त| णाए १ संघाडे २, अंडे ३ कुम्मे अ १३ सेलए ५। तुंबे ६ अ रोहिणी ७ मल्ली ८, मायंदी ९ चंदिमा १० इ.
॥१॥ दावहये ११ उदगनाए १२, मंदुके १३ तेअली १४ इय । नंदिफले १५ अवरकंका १६, आइण्णे १७ मुंसु १८ पुंडरीए १९ ॥२॥त्ति" तथा स्थानेषु आश्रयेषु कारणेष्वित्यर्थः, कस्येत्याह-असमाधेः । तत्र समाधिझनादिपु चित्तकात्र्यं, न समाधिरसमाधिस्तस्य, तानि च विंशतिस्तथा हि-द्रुतद्रुतचारित्वं, द्रुतचारित्वे हि पतनादिना आत्मानमसमाधौ योजयेत् , जीववधे सत्यन्यानपि, परलोके चात्मनः सत्त्ववधनिर्मितकर्मणा असमाधिः स्यात् । एवमन्येष्वप्यसमाधिस्थानत्वं भावनीयम ॥१॥ अप्रमार्जितेऽवस्थानादि ॥२॥ दुष्प्रमार्जितेऽवस्थानादि, अनयोः सादिनाऽऽत्मनोऽसमाधिः ॥ ३॥ अतिरिक्तशय्यासनत्वं अतिविस्तीर्णशालादौ अन्यैरधिकरणादिना आत्मपरासमाधिः, एकाधिकपीठाद्यासेवनेऽपि तथैव ॥४॥ रत्नाधिकपराभवनम् ॥ ५॥ स्थविरपरिभवनम् ॥६॥ भूतोपघातः प्रमादादेकेन्द्रियादिहननम् ॥ ७ ॥ संज्वलनं क्षणे २ रोषः ॥ ८॥ क्रोधनं दीर्घकोपकरणम् ॥९॥ पृष्ठमांसिकं परोक्षे परापवादः ॥ १० ॥ अभीक्ष्णं अवधारिणीभाषाया भाषणम् ॥ ११ ॥ नवाधिकरणकरणं, अन्यान्यकलहसन्तानयोजनम् ॥ १२ ॥ उदीरणमुपशान्तकलहानामुदीरणम् ॥ १३॥ अकाले खाध्यायकरणं, अनेन हि प्रान्तदेवता असमाधौ योजयति ॥ १४ ॥ सचित्तपृथ्वीरजःस्पृष्टपाणिना भिक्षाग्रहणं, एवं सरजःपादेनास्थण्डिलगमने
UTR-3