Book Title: Trishashtishalakapurushcharitammahakavyam Parva 10
Author(s): Hemchandracharya, Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 56
________________ ३२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं [दशमं पर्व कुक्कुटाण्डाविव श्वेतौ सदृक्षौ युग्मजाविव । कन्दुकाविव वृत्ताङ्गौ चामरोपमवालधी ॥३२७|| उत्पतिष्णू इवौधुर्याद्वेगाद्वायोरिवाऽऽत्मजौ । शकट्यां योजयामास तौ वृषौ श्रेष्ठिनः सुहृत् ॥३२८।। (युग्मम्) तत्सौकुमार्यमविदन् प्राजनाराभिरीरयन् । चित्रीयमाणो लोकानां सोऽकृपस्ताववाहयत् ॥३२९॥ वाहकेलीकतपणान पौरान सर्वाचिगाय सः । ताभ्यामद्वैतरंहोभ्यां वषभाभ्यां क्षणादपि ॥३३०॥ आराच्छिद्रोच्छलद्रक्तप्लाविताङ्गौ च तौ वृषौ । जातत्रोटौ श्रेष्ठिगृहे भूयो बवा जगाम सः ॥३३१।। पाभोजनावसरे श्रेष्ठी स्वयं यवसपूलभृत् । तयोर्वृषभयोः पार्श्वे ययौ तनययोरिव ॥३३२।। व्यात्तास्यौ निःसहौ सास्रौ बहुश्वासौ सवेपथू । आरा-क्षत-क्षरद्रक्तौ प्रेक्ष्य तावित्युवाच सः ॥३३३॥ एतौ पापात्मनोक्षाणौ प्राणेभ्योऽपि प्रियौ मम । मामनापृच्छ्य नयता नीतौ केनेदृशीं दशाम् ? ॥३३४|| श्रेष्ठिनो मित्रवृत्तान्तमाख्यत् परिजनोऽखिलम् । खेदं श्रेष्ठ्यपि सोदर्यविपदीवाऽऽसदद् भृशम् ॥३३५।। तौ वृषावप्यनशनं कर्तुकामौ विवेकिनौ । न मनाग् जघ्रतुरपि श्रेष्ठिदत्ते तृणाम्भसी ॥३३६।। ततश्चाऽढौकयच्छ्रेष्ठी स्थालमाज्यान्नपूरितम् । सम्भावयामासतुस्तद् दृशाऽपि हि न तौ वृषौ ॥३३७|| भावं ज्ञात्वा तयोर्भक्तप्रत्याख्यानमदत्त सः । तावपि प्रतिपेदाते साभिलाषौ समाहितौ ॥३३८।। तयोश्च कृपया श्रेष्ठी स्वयं त्यक्तान्यकर्मकः । नमस्कारान् ददत्तस्थौ बोधयंश्च भवस्थितिम् ॥३३९।। शृण्वन्तौ तौ नमस्कारान् भावयन्तौ भवस्थितिम् । समाधिना मृतौ नागकुमारेषु बभूवतुः ॥३४०॥ पाअथ कम्बल-शबलाववधेस्तावपश्यताम् । क्रियमाणं सुदाढेन स्वामिनस्तमुपद्रवम् ॥३४१॥ कृतमन्येन कृत्येन कृत्यमेतद्यदर्हतः । उपसर्ग निषेधावो ध्यात्वैवं तावुपेयतुः ॥३४२।। एक: प्रववृते योद्धं सुदाढेनाऽहिना सह । द्वितीयः पाणिनोत्पाट्य निन्ये नावं नदीतटे ॥३४३।। महद्धिकोऽपि सुदाढ आयुःप्रान्तगलबलः । ताभ्यां नूतनदेवत्ववैभवाभ्यामजीयत ॥३४४|| नंष्ट्वा सुदंष्ट्रः प्रययौ तौ च नागकुमारकौ । नत्वा प्रभौ ववृषतुः पुष्पगन्धोदके मुदा ॥३४५।। नद्या इवाऽऽपदोऽमुष्या उत्तीर्णास्त्वप्रभावतः ॥ इति ब्रुवाणा नौलोका भक्त्या वीरं ववन्दिरे ॥३४६।। पाप्रभुं नत्वेयतु गौ तर्या उत्तीर्य च प्रभुः । यथावदैर्यापथिकी प्रतिक्रम्याऽन्यतोऽचलत् ॥३४७।। सूक्ष्मामृत्तिके गङ्गासैकते पदपद्धतिः । चक्रादिलाञ्छिता भर्तुरभूद् भूभूषणं स्फुटा ॥ ३४८ ॥ सामुद्रलक्षणाभिज्ञः पुष्पो नाम ददर्श ताम् । एवं च दध्यौ कोऽप्येष एकाकी चक्रवर्त्यगात् ॥३४९॥ अद्याप्यप्राप्तराज्यो वा हृतो वा केनचिच्छलात् । मन्ये संप्रत्यसौ याति तं सेवे सेवकैषिणम् ॥३५०॥ असावस्यामवस्थायां सेवितः फलदः खलु । सेव्यस्य सेवावसर: पुण्येनैव हि लभ्यते ॥३५१॥ ध्यात्वेत्यनुपदं सोऽगात् स्थूणाके सन्निवेशने । अधोऽशोकस्य चाऽपश्यत् प्रभुं प्रतिमया स्थितम् ।।३५२।। श्रीवत्सलाञ्छितं वक्षः शिरोऽप्युष्णीषलाञ्छितम् । चक्रादिलाञ्छितौ पाणी भुजौ भुजगरानिभौ ॥३५३।। दक्षिणावर्तगम्भीरशुषिरं नाभिमण्डलम् । लोकोत्तराणि लक्ष्माणि प्रभोरेवं ददर्श सः ॥३५४|| एवं चाऽचिन्तयत् पुष्पो यथाऽयं पादलक्षणैः । लोकोत्तरस्तथाऽन्यैरप्यसौ चक्रीति सूच्यते ॥३५५।। १. कुर्कुटा० मु. । २. चामरतुल्यपुच्छौ । ३. 'परोणी' इति भाषायाम् । ४. अद्वितीयवेगाभ्याम् । ५. आरक्षत० खं. ४, मु. । ६. ममाऽना० मु. । ७. सहोदरस्य विपत्ताविव । ८. ०माढ्यान्न० मु. । ९. शम्बला० मु. । १०. ०प्रान्ते गल० मु. । ११. नौकायाः ।

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280