Book Title: Trishashtishalakapurushcharitammahakavyam Parva 10
Author(s): Hemchandracharya, Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 164
________________ १४० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं [दशमं पर्व यावदन्वेषयामास भूपतिस्तदितस्ततः । तावद्भद्राऽऽदिशद्दासी वाप्यम्भोऽन्यत्र नाय्यताम् ॥११६॥ तथा कृते तया चित्रदिव्याभरणमध्यगम् । अङ्गाराभं स्वाङ्गुलीयं दृष्ट्वा राजा विसिष्मिये ॥११७|| किमेतदिति राज्ञोक्ता दास्यवोचदिहाऽन्वहम् । निर्माल्यं शालिभद्रस्य सभार्यस्य निधीयते ॥११८|| सर्वथा धन्य एवैष धन्योऽहमपि संप्रति । राज्ये यस्येदृशाः सन्ति विममर्शेति भूपतिः ॥११९॥ बुभुजे सपरीवारो भूभुजामग्रणीस्ततः । चित्रालङ्कारवस्त्राद्यैरचितश्च गृहं ययौ ॥१२०॥ पाइयेष शालिभद्रोऽपि यावत् संसारमोक्षणम् । अभ्येत्य धर्मसुहृदा विज्ञप्तस्तावदीदृशम् ॥१२१॥ आगाच्चतुर्ज्ञानधरः सुरासुरनमस्कृतः । मूर्तो धर्म इवोद्याने धर्मघोषाभिधो मुनिः ॥१२२॥ शालिभद्रस्ततो हर्षादधिरुह्य रथं ययौ । आचार्यपादान् वन्दित्वा साधूंश्चोपाविशत् पुरः ॥१२३।। स सूरिर्देशनां कुर्वन्नत्वा तेनेत्यपृच्छ्यत । भगवन् ! कर्मणा केन प्रभुरन्यो न जायते ? ॥१२४|| भगवानप्युवाचैवं दीक्षां गृह्णन्ति ये जनाः । अशेषस्यापि जगतः स्वामिभावं भजन्ति ते ॥१२५।। यद्येवं नाथ ! तद् गत्वा निजामापृच्छ्य मातरम् । ग्रहीष्यामि व्रतमिति शालिभद्रो व्यजिज्ञपत् ॥१२६।। न प्रमादो विधातव्य इत्युक्तः सूरिणा ततः । शालिभद्रो गृहं गत्वा भद्रां नत्वेत्यभाषत ॥१२७।। qाधर्मः श्रीधर्मघोषस्य सूरेरद्य मुखाम्बुजात् । विश्वदुःखविमोक्षस्योपायभूतो मया श्रुतः ॥१२८।। अकार्षीः साध्विदं वत्स ! पितुस्तस्याऽसि नन्दनः । प्रशशंसेति भद्राऽपि शालिभद्रं प्रमोदतः ॥१२९।। सोऽप्यवोचदिदं मातरेवं चेत्तत् प्रसीद मे । ग्रहीष्यामि व्रतमहं ननु तस्य पितुः सुतः ॥१३०।। साऽप्यवोचदिदं वत्स ! युक्तस्तेऽसौ व्रतोद्यमः । किं त्वत्र लोहचणकाश्चर्वणीया निरन्तरम् ॥१३१॥ सुकुमारः प्रकृत्याऽपि दिव्यैर्भोगैश्च लालितः । स्यन्दनं तर्णक इव कथं त्वं वक्ष्यसि व्रतम् ? ॥१३२।। शालिभद्रोऽप्युवाचैवं पुमांसो भोगलालिताः । असहा व्रतकष्टानां कातरा एव नेतरे ॥१३३।। त्यज भोगान् क्रमान्मर्त्यमाल्यगन्धान् सहस्व च । इत्यभ्यासाद् व्रतं वत्स ! गृह्णीया इत्युवाच सा ॥१३४|| शालिभद्रस्ततो भद्रावचनं प्रतिपद्य तत् । भार्यामेकां तूलिकां च मुञ्चति स्म दिने दिने ॥१३५।। पाइतश्च तस्मिन्नगरे धन्यो नाम महाधनः । अभवच्छालिभद्रस्य कनिष्ठभगिनीपतिः ॥१३६।। शालिभद्रस्वसा साश्रुः स्नपयन्ती च तं तदा । किं रोदिषीति तेनोक्ता जगादेति सगद्गदम् ॥१३७|| व्रतं ग्रहीतुं मे भ्राता त्यजत्येकां दिने दिने । भार्यां च तूलिकां चाऽहं हेतुना तेन रोदिमि ॥१३८|| य एवं कुरुते फेरुरिव भीरुस्तपस्व्यसौ । हीनसत्त्वस्तव भ्रातेत्यूचे धन्यः सनर्मकम् ॥१३९।। सुकरं चेद् व्रतं नाथ क्रियते किं न हि स्वयम् ? । एवं सहासमन्याभिर्भार्याभिर्जगदेऽथ सः ॥१४०।। धन्योऽप्यूचे व्रते विघ्नो भवत्यस्ताश्च पुण्यतः । अनुमन्त्र्योऽद्य मेऽभूवन् प्रव्रजिष्यामि तद् द्रुतम् ॥१४१।। ता अप्यचः प्रसीदेदमस्माभिर्नर्मणोदितम् । मा स्म त्याक्षी: श्रियोऽस्मांश्च मनस्विन्नित्यलालिताः ॥१४२॥ अनित्यं स्त्रीधनाद्येतत् प्रोज्झ्य नित्यपदेच्छया । अवश्यं प्रव्रजिष्यामीत्यालपन् धन्य उत्थितः ॥१४३|| त्वामनु प्रव्रजिष्याम एवमुक्तवतीश्च ताः । अन्वमन्यत धन्योऽपि धन्यंमन्यो महामनाः ॥१४४॥ १. नी धातोः प्रेरककर्मणि प्रयोगः । २. तर्णकः बालवृषभः, स स्यन्दनं-रथं कथं वक्ष्यति-वोढुं समर्थः स्यात् ? । ३. तलिकां-शय्याम्, 'तळाई' इति भाषायाम् । ४. शृगालः । ५. सोपहासम् ।

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280