Book Title: Trishashtishalakapurushcharitammahakavyam Parva 10
Author(s): Hemchandracharya, Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
द्वादशः सर्गः] श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१८१ कृतमालामर: स्माऽऽह चक्रिणो द्वादशाऽभवन् । अप्रार्थितप्रार्थकोऽसि बुध्यस्व स्वस्ति तेऽस्तु भोः ! ॥४२१।। कूणिकोऽपि बभाणैवमहं चक्री त्रयोदशः । उत्पन्नः कृतपुण्योऽस्मि पुण्यैः किं नाम दुर्लभम् ? ॥४२२॥ पराक्रमं न मे वेत्सि कृतमाल ! गुहामिमाम् । कुरुष्व विततद्वारामन्यथा न भवस्यहो ! ॥४२३।। आधिदैविकदोषात्तमिवाऽसम्बद्धभाषिणम् । कूणिकं कृतमालो द्राग् रोषादकृत भस्मसात् ॥४२४||
अशोकचन्द्रो राजैवं विपद्य नरकावनिम् । षष्ठीमियाय वचनं ह्यर्हतां जातु नान्यथा ॥४२५।। प[आलेख्यशेषतां प्राप्ते कूणिके तु तदात्मजम् । सर्वे प्रधानपुरुषा राज्ये न्यधुस्दायिनम् ॥४२६॥
उदाय्यपि प्रजां न्याय्यवर्त्मना पर्यपालयत् । अखण्डशासन: पृथ्व्यां प्रथयन् जैनशासनम् ॥४२७|| तस्य स्थानस्थितस्यापि प्रतापसवितुर्द्विषः । तेजोऽसहाः प्रविविशु—कवद् गिरिगह्वरे ॥४२८।। धर्म-दान-युद्धभेदैस्तस्य वीरत्वमद्भुतम् । निदर्शनतया जज्ञे भूतसद्भाविभूभुजाम् ॥४२९।। कदाऽपि तस्य नोत्पेदे भयं स्वपरचक्रजम् । बिभाय स पुनर्नित्यं श्रावकव्रतखण्डनात् ॥४३०॥ चतुःपर्त्यां चतुर्थादितपसा शुद्धिमुद्वहन् । सामायिकस्थस्तस्थौ स स्वस्थः पौषधसद्मनि ॥४३१॥ अर्हन्देवो गुरुः साधुरिति तस्य दिवानिशम् । मन्त्राक्षरमिव ध्येयं हृदयादुत्ततार न ॥४३२।। अखण्डिताज्ञस्त्रिखण्डां दयावानपि सर्वदा । शशास जगतीमेतामुदाय्युदयभाग् नृपः ॥४३३॥
श्रीवीरस्वामिनो धर्मदेशनाममृतोपमाम् । आचम्याऽऽचम्य स सुधीरात्मानं पर्यपावयत् ॥४३४|| पाएवमाकेवलज्ञानोत्पत्तेविहरतो महीम् । बभूवेति परीवार: स्वामिनश्चरमार्हतः ॥४३५।। समजायन्त साधूनां सहस्राणि चतुर्दश । षट्त्रिंशत्तु सहस्राणि साध्वीनां शान्तचेतसाम् ॥४३६।। चतुर्दशपूर्वभृतां श्रमणानां शतत्रयम् । त्रयोदशशत्यवधिज्ञानिनां सप्तशत्यथ ॥४३७॥ वैक्रियलब्ध्य-नुत्तरगति-केवलिनां पुनः । मनोविदां पञ्चशती वादिनां तु चतुःशती ॥४३८।। श्रावकाणां तु लक्षैकैकोनषष्टिसहस्रयुक् । श्राविकाणां तु त्रिलक्षी साष्टादशसहस्रिका ॥४३९।।
यातेषु गौतम-सुधर्ममुनीन्द्रवर्ज
मोक्षश्रियं गणधरेषु नवस्वथोच्चैः ॥ स्वामी सुरासुरनभश्चरसेव्यमान
पादो जगाम भगवान्नगरीमपापाम् ॥४४०।। ॥ इत्याचार्यश्रीहेमचन्द्रसूरिविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये दशमपर्वणि भाविकुमारपालदेवचरिता
भयप्रव्रज्या-कूणिकचरितो-दायिराज्य-श्रीमहावीरकेवलिविहारवर्णनो नाम द्वादशः सर्गः ॥
-Kvk
१. भूतदोषग्रस्तम् । २. चित्रे एव शेषः स जातः । ३. प्रतापेन सूर्यस्येव । ४. भूताः-सन्तः-भाविनश्च ये भूभुजस्तेषाम् । ५. पोषध० खं. ४ । ६. केवल० खं. १ ।
Loading... Page Navigation 1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280