Book Title: Trishashtishalakapurushcharitammahakavyam Parva 10
Author(s): Hemchandracharya, Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 207
________________ त्रयोदशः सर्गः ] श्रीत्रिषष्टिशलाकापुरुषचरितम् । मार्गं श्रितो यथा दूरं क्रमात् पङ्गुरपि व्रजेत् । धर्मस्थो घनकर्माऽपि तथा मोक्षमवाप्नुयात् ॥२८॥ q[एवं च देशनां कृत्वा विरते त्रिजगद्गुरौ । मण्डलेशः पुण्यपालः प्रभुं नत्वा व्यजिज्ञपत् ॥२९॥ स्वामिन् ! स्वप्ना मयाऽद्याऽष्टौ दृष्टास्तत्र गजः कपिः । क्षीरदुः काक - सिंहा - ऽब्ज - बीज - कुम्भा इमे क्रमात् ||३०|| तदाख्याहि फलं तेषां भीतोऽस्मि भगवन्नहम् । इति पृष्टो जगन्नाथो व्याचकारेति तत्फलम् ||३१|| [विवेर्कतौङ्ग्याद् भूत्वाऽपि हस्तितुल्या अतः परम् । वत्स्यन्ति श्रावका लुब्धाः क्षणिकर्द्धिसुखे गृहे ॥३२॥ न दौःस्थ्ये परचक्रे वा प्रव्रजिष्यन्त्युपस्थिते । आत्तामपि परिव्रज्यां त्यक्ष्यन्ति च कुसङ्गतः ||३३|| विरलाः पालयिष्यन्ति कुसङ्गेऽपि व्रतं खलु । इदं गजस्वप्नफलं कपिस्वप्नफलं त्वदः ||३४|| प्रायः कपिसमा लोलपरिणामाऽल्पसत्त्वकाः । आचार्यमुख्या गच्छस्थाः प्रमादं गामिनो व्रते ||३५|| ते विपर्यासयिष्यन्ति धर्मस्थानितरानपि । भाविनो विरला एव धर्मोद्योगपराः पुनः ||३६|| धर्मश्रलथेषु ये शिक्षां प्रदास्यन्त्यप्रमादिनः । ते तैरुपहसिष्यन्ते ग्राम्यैर्ग्रामस्थेपौरवत् ||३७|| इत्थं प्रवचनाऽवज्ञाऽतः परं हि भविष्यति । प्लवङ्गमस्वप्नफलमिदं जानीहि पार्थिव ! ||३८|| क्षीरद्रुतुल्याः सुक्षेत्रे दातारः शासनार्चकाः । श्रावकास्ते तु रोत्स्यन्ते लिङ्गिभिर्वञ्चनापरैः ॥३९॥ तेषां च प्रतिभास्यन्ति सिंहसत्त्वभृतोऽपि हि । महर्षयः सारमेया इवाऽसारमतिस्पृशाम् ॥४०॥ आदास्यन्ते सुविहितविहारक्षेत्रपद्धतिम् । लिङ्गिनो बब्बूलसमाः क्षीद्रुफलमीदृशम् ॥४१॥ धृष्टस्वभावा मुनयः प्रायो धर्मार्थिनोऽपि हि । रंस्यन्ते न हि गच्छेषु दीर्घिकाम्भः स्विव द्विकः ॥४२॥ ततोऽन्यगच्छिकैः सूरिप्रमुखैर्वञ्चनापरैः । मृगतृष्णानिभैः सार्धं चलिष्यन्ति जडाशयाः ||४३|| न युक्तमेभिर्गमनमिति तत्रोपदेशकान् । बाधिष्यन्ते नितान्तं ते काकस्वप्नफलं ह्यदः ||४४|| सिंहतुल्यं जिनमतं जातिस्मृत्याद्यैसूज्झितम् । विपत्स्यतेऽस्मिन् भरतवने धर्मज्ञवर्जिते ॥४५॥ न कुतीर्थिकतिर्यञ्चोऽभिभविष्यन्ति जातु तत् । स्वोत्पन्ना कृमिवत्किं तु लिङ्गिनोऽशुद्धबुद्धयः ॥४६॥ लिङ्गिनोऽपि प्राक्प्रभावात् श्वापदाभैः कुतीर्थिकैः । न जात्वभिभविष्यन्ते सिंहस्वप्नफलं ह्यदः ॥४७॥ अब्जाकरेष्वम्बुजानि सुगन्धीनीव देहिनः । धार्मिका न भविष्यन्ति संजाताः सुकुलेष्वपि ॥४८॥ अपि धर्मपरा भूत्वा भविष्यन्ति कुसङ्गतः । ग्रामावंकरकोत्पन्नगर्दभाब्जवदन्यथा ॥४९॥ कुदेशे कुकुले जाता धर्मस्था अपि भाविन: । हीना इत्यनुपादेयाः पद्मस्वप्नफलं दः ॥५०॥ यथा फलायाऽबीजानि बीजबुद्ध्यो खरे वपेत् । तथा वप्स्यन्त्यकल्पानि कुपात्रे कल्पबुद्धितः ॥५१॥ यद्वा घुणाक्षरन्यायाद्यथा कोऽपि कृषीवलः । अबीजान्तर्गतं बीजं वपेत् क्षेत्रे निराशयः ॥५२॥ १८३ १. विवेकवन्तो भूत्वापि मु. । विवेकतुङ्गत्वेन हस्तिवदुत्तुङ्गा भूत्वापीत्यर्थः । २. ग्रामे स्थितं पौरं - नगरवासिजनं यथा ग्राम्या हसिष्यन्ति तथा । ३. वापीजलेषु । ४. द्विकाः काका: । द्विजाः खं. ४ । ५. ०द्यनूज्ज्ञितम् मु., नू. मु. । जातिस्मृत्यादय एव असवःप्राणाः तैरुज्झितं -रहितम् । ६. जिनमतम् । ७. ०ष्यन्ति खं. १ । ८. ०न्धानीव खं. १ । ९. ग्रामस्य योऽवकरक :- ‘ऊकरडो’ तत्रोत्पन्नं यद् गर्दभाब्जं श्वेतपुष्पम्, तद्वत् । १०. ०फलाय बीजा० खं. १ । ११. ०द्धयोषरे खं. १ । १२. अकल्पानि - अनाचारान् । १३. ०र्गतबीजं खं. १ । १४. निराश्रयः खं. १ ।

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280