Book Title: Trishashtishalakapurushcharitammahakavyam Parva 10
Author(s): Hemchandracharya, Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 213
________________ त्रयोदशः सर्गः ] श्रीत्रिषष्टिशलाकापुरुषचरितम् । बलदेवस्य जीवोऽर्हन्निष्कषायस्त्रयोदशः । जिनेन्द्रो रोहिणीजीवो निष्पुलाक श्चतुर्दशः ॥ १९५॥ निर्ममः सुलसाजीवो जिनः पञ्चदशः पुनः । षोडशो रेवतीजीवश्चित्रगुप्तोऽभिधानतः ॥ १९६॥ गवालिजीवः समाधिर्नाम्ना सप्तदशो जिनः । जीवस्तु गांर्गलेरष्टादशोऽर्हन् संवराभिधः ॥१९७॥ द्वीपायनजीवस्त्वेकोनविंशोऽर्हन् यशोधरः । विजयो विंशतितमः कर्णजीवो जिनेश्वरः ॥१९८॥ एकविंशो जिनो मल्लो यः पुरा नारदोऽभवत् । अम्बडस्य पुनर्जीवो द्वाविंशो देवतीर्थकृत् ॥१९९॥ त्रयोविंशोऽनन्तवीर्यो जीवो द्वारमदस्य तु । स्वातिजीवश्चतुर्विंशो भद्रकृन्नाम तीर्थकृत् ॥२००॥ [[दीर्घदन्तो गूढदन्तः शुद्धदन्तस्तृतीयकः । तथा श्रीचन्द्रः श्रीभूतिः श्रीसोमः पद्म इत्यपि ॥२०१|| महापद्म दशमाख्यस्तथा विमल इत्यपि । विमलवाहनोऽरिष्टो भाविनोऽमी च चक्रिणः ॥ २०२ || ( युग्मम् ) नन्दिश्च नन्दिमित्रश्च तथा सुन्दरबाहुकः । महाबाहुरतिबलो महाबल - बलावपि ॥२०३॥ द्विपृष्ठश्च त्रिपृष्ठश्च नवाऽमी अर्धचक्रिणः । चटत्प्रकर्षा रामाश्च तत्र प्रथमतो बलः ॥२०४॥ जयन्तोऽथाऽजितो धर्मः सुप्रभश्च सुदर्शनः । आनन्दो नन्दनः पद्मस्तथा संकर्षणोऽन्तिमः ॥२०५॥ प्रत्यर्धचक्रिणश्चैते तिलको लोहजङ्घकः । वज्रजङ्घः केसरी च बलिः प्रह्लाद इत्यपि ॥२०६|| तथाऽपराजितो भीमः सुग्रीवो नवमः पुनः । इत्युत्सर्पिण्यां त्रिषष्टिः शलाकापुरुषा अमी ॥२०७॥ प|इत्युक्तवन्तं श्रीवीरं सुधर्मा गणभृद्वरः । पप्रच्छ केवलादित्यः किं कुत्रोच्छेदमेष्यति ? ॥२०८॥ स्वाम्यथाऽऽख्यन्मम मोक्षाद् गते काले कियत्यपि । जम्बूनाम्नस्तव शिष्यात् परं भावि न केवलम् ||२०९॥ उच्छिन्ने केवले भावी न मन:पर्ययोऽपि हि । पुलाकलब्धिश्च तथाऽवधिश्च परमो न हि ॥ २१०|| क्षपकोपशमश्रेण्यौ न च नाऽऽहारकं वपुः । जिनकल्पो न हि न हि संयमत्रितयं तथा ॥२११॥ [[शिष्यः सेत्स्यति ते जम्बूः स चतुर्दशपूर्वभृत् । जम्बूशिष्यः प्रभवश्च भविता सर्वपूर्वभृत् ॥२१२॥ शय्यम्भवस्तु तच्छिष्यो द्वादशाङ्गी भविष्यति । दशवैकालिकग्रन्थं स्रक्ष्यत्युद्धृत्य स श्रुतात् ॥२१३ ॥ तस्य शिष्यो यशोभद्रो भविता सर्वपूर्वभृत् । सम्भूत- भद्रबाहू च तच्छिष्यौ सर्वपूर्वि ॥ २१४॥ स्थूलभद्रोऽथ सम्भूतान्तेवासी सर्वपूर्वभृत् । ततोऽन्तिमा चतुःपूर्वी व्युच्छेदमुपयास्यति ॥२१५॥ महागिरि - सुहस्त्याद्या वज्रान्ता दशपूर्विणः । ततः परं भविष्यन्ति तीर्थस्याऽस्य प्रवर्तकाः ||२१६|| एवमाख्याय समवसरणान्निर्ययौ प्रभुः । हस्तिपालनरेन्द्रस्य शुल्कशालां जगाम च ॥२१७|| स्वामी तद्दिनयामिन्यां विदित्वा मोक्षमात्मनः । दध्यावहो गौतमस्य मयि स्नेहो निरत्ययः || २१८ || स एव केवलज्ञानप्रत्यूहोऽस्य महात्मनः । स च्छेद्य इति विज्ञाय निजगादेति गौतमम् ॥२१९॥ देवशर्मा द्विजो ग्रामे परस्मिन्नस्ति स त्वया । बोधं प्राप्स्यति तद्धेतोस्तत्र त्वं गच्छ गौतम ! ॥ २२०॥ यथाऽऽदिशति मे स्वामीत्युदित्वा च प्रणम्य च । जगाम गौतममुनिस्तथा चक्रे प्रभोर्वचः ॥२२१॥ [[तदा च कार्तिकदर्शनिशायाः पश्चिमे क्षणे । स्वातित्र वर्तमाने कृतषष्ठो जगद्गुरुः ॥२२२॥ कल्याणफलपाकानि पञ्चपञ्चाशतं तथा । तावन्त्यघविपाकानि जगावध्ययनानि तु ॥ २२३ ॥ १८९ १. मार्ग० खं. १-३ । २. द्वैपा० खं. ३-४ । ३. वर्धमानोत्कर्षाः । ४. उत्सन्ने खं. ३ । उत्सन्न० खं. १ । ५. नचावधि० खं. १-४, नू. मु. । ६. पण्यागारम् । ७. केवलज्ञानप्राप्तौ विघ्नम् । ८. कल्याणि० खं. ४ ।

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280