Book Title: Trishashtishalakapurushcharitammahakavyam Parva 10
Author(s): Hemchandracharya, Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 215
________________ त्रयोदशः सर्गः ] श्रीत्रिषष्टिशलाकापुरुषचरितम् । जगद्गुरोर्वपुर्नत्वा बाष्पायितदृशः सुराः । अदूरे तस्थुरथ ते शोचन्तः स्वमनाथकम् ॥२४९॥ शक्रोऽथ धैर्यमालब्य नन्दनादिवनाहृतैः । गोशीर्षचन्दनै धोभिरेकान्तेऽरचयच्चिताम् ॥२५०॥ क्षीरोदसागराम्भोभिर्वपुरस्नपयत् प्रभोः । विलिलेप च दिव्येनाऽङ्गरागेण स्वयं हरिः ॥२५९॥ आमोच्य वाससी दिव्ये शक्रः स्वामिवपुः स्वयम् । उद्देध्रे नयनाम्भोभिर्भूयोऽपि स्नपयन्निव ॥२५२॥ विमानवरकल्पायां शिबिकायां प्रभोर्वपुः । शक्रो न्यधाद् दृश्यमानः सौस्रदृग्भिः सुरासुरैः ॥२५३॥ स्वामिशासनवन्मूर्ध्ना तां स्वामिशिबिकामथ । कथञ्चिद्रुद्धशोकः सन्नुद्दधार पुरन्दरः ॥ २५४ ॥ ववृषुस्तत्र पुष्पाणि दिव्यानि त्रिदिवौकसः । व्याहरन्तो जय जयेत्युच्चकैर्बन्दिवृन्दवत् ॥२५५॥ सुरा स्वनयनाम्भोजपयोभिः पुनरुक्तया । गन्धाम्बुवृष्ट्या परितः सिषिचुर्वसुधातलम् ॥२५६॥ जगुस्तारं च गन्धर्वा गन्धर्वा इव चाऽमराः । स्मारं स्मारं स्वामिगुणानुद्गृणन्तो मुहुर्मुहुः ॥२५७॥ मृदङ्ग-पणवादीनि वाद्यानि शतशो दृढम् । द्युसदस्ताडयामासुर्निजोर: स्थलवच्छुचा ॥२५८॥ स्वामिनः शिबिकाऽग्रे च ननृतुः सुरयोषितः । स्खलच्चारीक्रमाः शोकान्नर्तक्योऽभिनवा इव ॥२५९॥ दिव्यैर्दुकूलैर्हाराद्यैर्भूषणैः पुष्पदामभिः । आनर्चुः शिबिकां भर्तुश्चतुर्विधदिवौकसः ॥२६०|| श्रावकाः श्राविकाश्चापि भक्तिशोकसमाकुलाः । विदधू रासकगीतं रुदितं च सहैव हि ॥२६१ ॥ तदा साधुषु साध्वीषु चात्यन्तं विदधे पदम् । शोकः कोर्कनदेष्वर्कात्यये निद्रेव भूयसी ॥२६२॥ [[ततश्चितायां निदधे स्वामिनोऽङ्गं पुरन्दरः । विदीर्यमाणहृदय इवाऽन्तः शोकशङ्कुना ॥२६३॥ अग्निमग्निकुमाराश्च चितामध्ये विचक्रिरे । तद्दीपनं विचक्रुश्च वायुं वायुकुमारकाः ॥२६४|| गन्धधूपान् घृत-मधुकुम्भांश्च शतशोऽपरे । ज्वलन्त्यां तत्र चित्यायां चिक्षिपुस्त्रिदिवौकसः ॥२६५॥ मांसादिषु प्रदग्धेषु क्षीरोदादाहृतैर्जलैः । चितां विध्यापयामासुर्झगिति स्तनितामराः ॥२६६॥ [[शक्रेशानावूर्ध्वदंष्ट्रे दक्षिणादक्षिणे ततः । अधोदंष्ट्रे तु चमर-बली जगृहतुः प्रभोः ॥२६७॥ इन्द्रास्त्वन्ये सुराश्चाऽन्यान् दन्तानस्थीनि च प्रभोः । जगृहुस्तच्चिताभस्म नरास्तु शिवकांक्षिणः ॥२६८॥ तस्याश्चितायाः स्थानेऽथ स्थानं कल्याणसम्पदाम् । अमरा रचयामासुः स्तूपं रत्नमयं परम् ॥२६९॥ निर्वाणर्मंहमेवं ते कृत्वा भर्तुः सुरा ययुः । नन्दीश्वरे विदधुश्चाष्टाह्निकां शाश्वतार्हताम् ॥२७०॥ गत्वा स्वः स्वविमानान्तर्माणवस्तम्भमूर्धसु । वृत्तवज्रमुद्गकेषु स्वामिदंष्ट्रा न्यधुः सुराः || २७१ || [[गार्हस्थ्ये त्रिंशदब्दी द्विचत्वारिंशत्समा व्रते । इति द्वासप्ततिर्वर्षाण्यायुर्वीरप्रभोरभूत् ॥ २७२॥ श्रीपार्श्वनाथनिर्वाणात् सार्धे वर्षशतद्वये । गते श्रीवीरनाथस्य निर्वाणं समजायत ॥ २७३ ॥ [[इतश्च देवशर्माणं बोधयित्वा निवृत्तवान् । शुश्राव गौतमः स्वामिनिर्वाणं सुरवार्तया ॥२७४॥ गौतमस्वाम्यथोत्ताम्यंश्चिन्तयामास चेतसि । एकस्याऽह्नः कृते भर्त्रा किमहं प्रेषितोऽस्मि हा !? ॥ २७५॥ १९१ १. उद्दधे खं. ३ । २. साश्रु० मु. । ३. एका नयनाम्बुवृष्टिः पुनश्च गन्धाम्बुवृष्टिरेवं पुनरुक्तया वृष्ट्या । पुनरक्तया मु., नू. मु. । ४. शोकेन निजं वक्षःस्थलमिव । ५. चारी नृत्यभङ्गिः स्खलंश्चारीणां क्रमो यासां ताः सुराङ्गना नूतना नर्तक्य इव । ६. कमलेषु सूर्यास्तंगमनादिव । ७. इवाऽऽत्तः मु., नू. मु. । ८. मेघकुमारदेवाः । ९. दक्षिणा चाऽदक्षिणा -वामा च, ते । १०. ० महिमैवं खं. १-४ ।

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280