________________
त्रयोदशः सर्गः ]
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
जगद्गुरोर्वपुर्नत्वा बाष्पायितदृशः सुराः । अदूरे तस्थुरथ ते शोचन्तः स्वमनाथकम् ॥२४९॥ शक्रोऽथ धैर्यमालब्य नन्दनादिवनाहृतैः । गोशीर्षचन्दनै धोभिरेकान्तेऽरचयच्चिताम् ॥२५०॥ क्षीरोदसागराम्भोभिर्वपुरस्नपयत् प्रभोः । विलिलेप च दिव्येनाऽङ्गरागेण स्वयं हरिः ॥२५९॥ आमोच्य वाससी दिव्ये शक्रः स्वामिवपुः स्वयम् । उद्देध्रे नयनाम्भोभिर्भूयोऽपि स्नपयन्निव ॥२५२॥ विमानवरकल्पायां शिबिकायां प्रभोर्वपुः । शक्रो न्यधाद् दृश्यमानः सौस्रदृग्भिः सुरासुरैः ॥२५३॥ स्वामिशासनवन्मूर्ध्ना तां स्वामिशिबिकामथ । कथञ्चिद्रुद्धशोकः सन्नुद्दधार पुरन्दरः ॥ २५४ ॥ ववृषुस्तत्र पुष्पाणि दिव्यानि त्रिदिवौकसः । व्याहरन्तो जय जयेत्युच्चकैर्बन्दिवृन्दवत् ॥२५५॥ सुरा स्वनयनाम्भोजपयोभिः पुनरुक्तया । गन्धाम्बुवृष्ट्या परितः सिषिचुर्वसुधातलम् ॥२५६॥ जगुस्तारं च गन्धर्वा गन्धर्वा इव चाऽमराः । स्मारं स्मारं स्वामिगुणानुद्गृणन्तो मुहुर्मुहुः ॥२५७॥ मृदङ्ग-पणवादीनि वाद्यानि शतशो दृढम् । द्युसदस्ताडयामासुर्निजोर: स्थलवच्छुचा ॥२५८॥ स्वामिनः शिबिकाऽग्रे च ननृतुः सुरयोषितः । स्खलच्चारीक्रमाः शोकान्नर्तक्योऽभिनवा इव ॥२५९॥ दिव्यैर्दुकूलैर्हाराद्यैर्भूषणैः पुष्पदामभिः । आनर्चुः शिबिकां भर्तुश्चतुर्विधदिवौकसः ॥२६०|| श्रावकाः श्राविकाश्चापि भक्तिशोकसमाकुलाः । विदधू रासकगीतं रुदितं च सहैव हि ॥२६१ ॥ तदा साधुषु साध्वीषु चात्यन्तं विदधे पदम् । शोकः कोर्कनदेष्वर्कात्यये निद्रेव भूयसी ॥२६२॥ [[ततश्चितायां निदधे स्वामिनोऽङ्गं पुरन्दरः । विदीर्यमाणहृदय इवाऽन्तः शोकशङ्कुना ॥२६३॥ अग्निमग्निकुमाराश्च चितामध्ये विचक्रिरे । तद्दीपनं विचक्रुश्च वायुं वायुकुमारकाः ॥२६४|| गन्धधूपान् घृत-मधुकुम्भांश्च शतशोऽपरे । ज्वलन्त्यां तत्र चित्यायां चिक्षिपुस्त्रिदिवौकसः ॥२६५॥ मांसादिषु प्रदग्धेषु क्षीरोदादाहृतैर्जलैः । चितां विध्यापयामासुर्झगिति स्तनितामराः ॥२६६॥ [[शक्रेशानावूर्ध्वदंष्ट्रे दक्षिणादक्षिणे ततः । अधोदंष्ट्रे तु चमर-बली जगृहतुः प्रभोः ॥२६७॥ इन्द्रास्त्वन्ये सुराश्चाऽन्यान् दन्तानस्थीनि च प्रभोः । जगृहुस्तच्चिताभस्म नरास्तु शिवकांक्षिणः ॥२६८॥ तस्याश्चितायाः स्थानेऽथ स्थानं कल्याणसम्पदाम् । अमरा रचयामासुः स्तूपं रत्नमयं परम् ॥२६९॥ निर्वाणर्मंहमेवं ते कृत्वा भर्तुः सुरा ययुः । नन्दीश्वरे विदधुश्चाष्टाह्निकां शाश्वतार्हताम् ॥२७०॥ गत्वा स्वः स्वविमानान्तर्माणवस्तम्भमूर्धसु । वृत्तवज्रमुद्गकेषु स्वामिदंष्ट्रा न्यधुः सुराः || २७१ || [[गार्हस्थ्ये त्रिंशदब्दी द्विचत्वारिंशत्समा व्रते । इति द्वासप्ततिर्वर्षाण्यायुर्वीरप्रभोरभूत् ॥ २७२॥
श्रीपार्श्वनाथनिर्वाणात् सार्धे वर्षशतद्वये । गते श्रीवीरनाथस्य निर्वाणं समजायत ॥ २७३ ॥ [[इतश्च देवशर्माणं बोधयित्वा निवृत्तवान् । शुश्राव गौतमः स्वामिनिर्वाणं सुरवार्तया ॥२७४॥ गौतमस्वाम्यथोत्ताम्यंश्चिन्तयामास चेतसि । एकस्याऽह्नः कृते भर्त्रा किमहं प्रेषितोऽस्मि हा !? ॥ २७५॥
१९१
१. उद्दधे खं. ३ । २. साश्रु० मु. । ३. एका नयनाम्बुवृष्टिः पुनश्च गन्धाम्बुवृष्टिरेवं पुनरुक्तया वृष्ट्या । पुनरक्तया मु., नू. मु. । ४. शोकेन निजं वक्षःस्थलमिव । ५. चारी नृत्यभङ्गिः स्खलंश्चारीणां क्रमो यासां ताः सुराङ्गना नूतना नर्तक्य इव । ६. कमलेषु सूर्यास्तंगमनादिव । ७. इवाऽऽत्तः मु., नू. मु. । ८. मेघकुमारदेवाः । ९. दक्षिणा चाऽदक्षिणा -वामा च, ते । १०. ० महिमैवं खं. १-४ ।