________________
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यगुम्फितं
[ दशमं पर्व
जगन्नाथमियत्कालं सेवित्वाऽन्ते न दृष्टवान् । अधन्यः सर्वथाऽस्म्येष धन्यास्ते तत्र ये स्थिताः ॥२७६॥ गौतम ! त्वं वज्रमयो वज्रादप्यधिकोऽसि वा । श्रुत्वाऽपि स्वामिनिर्वाणं शतधा यन्न दीर्यसे ॥ २७७॥ यद्वाऽऽदितोऽपि भ्रान्तोऽहं यद्रागं रागवर्जिते । ममत्वं निर्ममे चास्मिन् कृतवानीदृशे प्रभौ ॥२७८॥ रागद्वेषप्रभृतयः किं चाऽमी भवहेतवः । हेतुना तेन च त्यक्तास्तेनापि परमेष्ठिना ॥ २७९ ॥ ईदृशे निर्ममे नाथे ममत्वेन ममाऽप्यलम् । ममत्वं सममत्वेऽपि मुनीनां न हि युज्यते ॥ २८० ॥ एवं शुक्लध्यानपरः क्षपकश्रेणिभाक् क्षणात् । घातिकर्मक्षयात् प्राप केवलं गौतमो मुनिः ॥ २८१२ || [तत्र द्वादशवत्सरीं क्षितितले भव्यान् प्रबोध्योच्चकैः, स्वामीवाऽमलकेवलद्धिरमरैरभ्यर्चितो गौतमः । गत्वा राजगृहे पुरे क्षतभवोपग्राहिकर्मा प्रभु-र्भूत्वा मासमुपोषितः पदमगादक्षीणशर्मास्पदम् ॥२८२॥ मुक्ते तत्र च पञ्चमो गणधरो लब्ध्वा सुधर्मप्रभु-र्ज्ञानं पञ्चममन्वशाच्चिरतरं धर्मं जनान् क्ष्मातले । प्राप्तो राजगृहाभिधाननगरे निःशेषमप्यन्यदा, जम्बूस्वामिमुनेरधीनमनघं सङ्घ निजं निर्ममे ॥२८३|| तस्मिन्नेव पुरे सुधर्मगणभृत् क्षीणाष्टकर्मा क्रमा-तुर्यध्यानधरोऽपुनर्भवमगादद्वैतसौख्यं पदम् । पश्चादन्तिमकेवली क्षितितले श्रीवीरमार्गाग्रणी - धर्मं भव्यजनान् प्रबोध्य सुचिरं जम्बूप्रभुश्चान्यदा ॥ २८४ ॥ त्रैलोक्येऽपि हि सात्त्विकेष्वनवधेः प्राग्जन्ममोक्षावैधि
१९२
श्रीमद्वीरजिनेश्वरस्य चरितं को वक्तुमीशोऽखिलम् ? | अस्ताघस्य तथापि हि प्रवचनाम्भोधेर्गृहीत्वा लवं
किञ्चित्कीर्तितमीदृशं ननु मया स्वान्योपकारेच्छया ॥ २८५॥
॥ इत्याचार्यश्रीहेमचन्द्रसूरिविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये दशमपर्वणि श्रीमहावीरनिर्वाणगमन
वर्णनो नाम त्रयोदशः सर्गः ॥
१. ० वधेः खं. १-२ ।
समाप्तं चेदं दशमं पर्व ॥
परिपूर्णमिदं त्रिषष्टिशलाकापुरुषचरितं महाकाव्यमिति ॥
____Kvk—