________________
१९३
अथ प्रशस्तिः ]
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
अथ प्रशस्तिः शिष्यो जम्बुमहामुनेः प्रभव इत्यासीदमुष्यापि च
श्रीशय्यम्भव इत्यमुष्य च यशोभद्राभिधानो मुनिः ॥ सम्भूतो मुनिभद्रबाहुरिति च द्वौ तस्य शिष्योत्तमौ
सम्भूतस्य च पादपद्ममधुलिट् श्रीस्थूलभद्राह्वयः ॥१॥ वंशक्रमागतचतुर्दशपूर्वरत्न-कोशस्य तस्य दशपूर्वधरो महर्षिः । नाम्ना महागिरिरिति स्थिरतागिरीन्द्रो, ज्येष्ठोऽन्तिषत्समजनिष्ट विशिष्टलब्धिः ॥२॥ शिष्योऽन्यो दशपूर्वभृन्मुनिवृषो, नाम्ना सुहस्तीत्यभू
द्यत्पादाम्बुजसेवनात् समुदित-प्राज्यप्रबोधद्धिकः ॥ चक्रे संप्रतिपार्थिवः प्रतिपुर-ग्रामाकरं भारते
ऽस्मिन्न॰ जिनचैत्यमण्डितमिलापृष्ठं समन्तादपि ।।३।। अजनि सुस्थित-सुप्रतिबद्ध इत्यभिधयाऽऽर्यसुहस्तिमहामुनेः । शमधनो दशपूर्वधरोऽन्तिष-द्भवमहातरुभञ्जनकुञ्जरः ॥४॥ महर्षिसंसेवितपादसन्निधेः, प्रचारभागालवणोदसागरम् । महान् गणः कोटिक इत्यभूत्ततो, गङ्गाप्रवाहो हिमवगिरेरिव ॥५॥ तस्मिन् गणे कतिपयेष्वपि यातवत्सु, साधूत्तमेषु चरमो दशपूर्वधारी । उद्दामतुम्बवनपत्तनवज्रखानि-वज्रं महामुनिरजायत वज्रसूरिः ॥६॥ दुर्भिक्षे समुपस्थिते प्रलयवद्भीमत्वभाज्यन्यदा
भीतं न्यस्य महर्षिसङ्घमभितो विद्यावदातः पटे ।। योऽभ्युद्धृत्य कराम्बुजेन नभसा पुर्यामनैषीन्महा
पर्यां मंक्षु सुभिक्षधामनि तपोधाम्नामसीम्नां निधिः ।।७।। तस्माद्वज्राभिधा शाखाऽभूत् कोटिकगणद्रुमे । उच्चनागरिकामुख्यशाखात्रितयसोदरा ॥८॥
तस्यां च वज्रशाखायां निलीनमुनिषट्पदः । पुष्पगुच्छायितो गच्छश्चन्द्र इत्याख्ययाऽभवत् ॥९॥ धर्मध्यानसुधासुधांशुरमलग्रन्थार्थरत्नाकरो, भव्याम्भोरुहभास्करः स्मरकरिप्रोन्माथकण्ठीरवः ॥ गच्छे तत्र बभूव संयमधनः कारुण्यराशिर्यशो-भद्रः सूरिरपूरि येन भुवनं शुभैर्यशोभिर्निजैः ॥१०॥ श्रीमन्नेमिजिनेन्द्रपावितशिरस्यद्रौ स संलेखनां, कृत्वाऽऽदौ प्रतिपन्नवाननशनं प्रान्ते शुभध्यानभाक् ।। तिष्ठन् शान्तमनास्त्रयोदशदिनान्याश्चर्यमुत्पादय-न्नुच्चैः पूर्वमहर्षिसंयमकथाः सत्यापयामासिवान् ॥११॥
श्रीमान्प्रद्युम्नसूरिः समजनि जनितानेकभव्यप्रबोध
स्तच्छिष्यो विश्वविश्वप्रथितगुणगणः प्रावृडम्भोदवद् यः ॥ प्रीणाति स्माऽखिलक्ष्मां प्रवचनजलधेरुद्धृतैरर्थनीरै
रातत्य स्थानकानि श्रुतिविषयसुधासारसध्यञ्चि विष्वक् ॥१२॥ १. ०बुद्ध मु., नू. मु. । २. ०गुण० खं. १ । ३. ०यिता खं १-४ । ४. सप्ततिशतस्थानकप्रकरणाभिधग्रन्थप्रणेता । ५. श्रत० खं. १ ।