________________
१९४
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यगुम्फितं
सर्वग्रन्थरहस्यरत्नमुकुरः कल्याणवल्लीतरुः कारुण्यामृतसागरः प्रवचनव्योमाङ्गणाहस्करः ।। चारित्रादिकरत्नरोहणगिरिः क्ष्मां पावयन् धर्मराट्
सेनानीर्गुणसेनसूरिरभवच्छिष्यस्तदीयस्ततः ॥१३॥ शिष्यस्तस्य च तीर्थमेकमवनेः पावित्र्यकृज्जङ्गमं स्याद्वादत्रिदशापगाहिमगिरिर्विश्वप्रबोधार्यमा ॥
कृत्वा स्थानकवृत्ति - शान्तिचरिते प्राप्तः प्रसिद्धिं परां
सूरिर्भूरितप:प्रभाववसतिः श्रीदेवचन्द्रोऽभवत् ॥१४॥
आचार्यो हेमचन्द्रोऽभूत्तत्पादाम्बुजषट्पदः । तत्प्रसादादधिगतज्ञानसम्पन्महोदयः ॥१५॥
जिष्णुश्चेदि - दशार्ण - मालव- महाराष्ट्राऽपरान्तं कुस्त्
सिन्धूनन्यतमांश्च दुर्गविषयान् दोर्वीर्यशक्त्या हरिः ॥ चौलुक्यः परमार्हतो विनयवान्, श्रीमूलराजान्वयी ।
तं नत्वेति कुमारपालपृथिवीपालोऽब्रवीदेकदा ॥१६॥ पोपर्द्धि-द्यूत-मद्य-प्रभृति किमपि यन्नारकायुर्निमित्तं
तत्सर्वं निर्निमित्तोपकृतिकृतधियां प्राप्य युष्माकमाज्ञाम् ॥ स्वामिन्नुर्व्यां निषिद्धं धनमसुतमृतस्याऽथ मुक्तं तथाऽर्ह
च्चैत्यैरुत्तंसिता भूरभवमिति समः संप्रतेः संप्रतीह ||१७||
अस्मत्पूर्वजसिद्धराजनृपतेर्भक्तिस्पृशो याच्ञया, साङ्गं व्याकरणं सुवृत्तिसुगमं चक्रुर्भवन्तः पुरा ॥
मद्धेतोरथ योगशास्त्रममलं लोकाय च द्वयाश्रय-छन्दो - ऽलङ्कृति - नामसङ्ग्रहमुखान्यन्यानि शास्त्राण्यपि ॥१८॥ लोकोपकारकरणे स्वयमेव यूयं, सज्जाः स्थ यद्यपि तथाप्यहमर्थयेऽदः ।
मादृग्जनस्य परिबोधकृते शलाका-पुंसां प्रकाशयत वृत्तमपि त्रिषष्टेः ॥१९॥ तस्योपरोधादिति हेमचन्द्राचार्यः शलाकापुस्त्रेतिवृत्तम् । धर्मोपदेशैकफलप्रधानं, न्यवीविशच्चारुगिरां प्रपञ्चे ||२०|| जम्बूद्वीपारविन्दे कनकगिरिरसावश्नुते कर्णिकात्वं
[ दशमं पर्व
यावद्यावच्च धत्ते जलनिधिरवनेरन्तरीपत्वमुच्चैः । यावद्वयोमाध्वपान्थौ तरणि- शशधरौ भ्राम्यतस्तावदेतत्
काव्यं नाम्ना शलाका-पुस्प्रचरितमित्यस्तु जैत्रं धरित्र्याम् ॥२१॥ इति प्रशस्तिः __Kvk—
१. ०म्भोज० खं. ४ । २. मृगया । ३. पूर्वं पूर्वज० खं. २-३, मु., नू. मु. । ४. सवृत्ति० खं. १ । ५. ० रीयत्व० मु., नू. मु. । ६. जैनं मु., नू. मु.