________________
१९० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व षट्त्रिंशतमप्रश्नव्याकरणान्यभिधाय च । प्रधानं नामाऽध्ययनं जगद्गुरुभावयत् ॥२२४।। स्वामिनो मोक्षसमयं विज्ञायाऽऽसनकम्पतः । सुरासुरेन्द्रास्तत्रेयुः सर्वेऽपि सपरिच्छदाः ॥२२५।। पासहस्राक्षोऽश्रुपूर्णाक्षः प्रणम्याऽथ जगद्गुरुम् । विरचय्याऽञ्जलिं मूनि ससंभ्रममदोऽवदत् ॥२२६।। गर्भे जन्मनि दीक्षायां केवले च तव प्रभो ! । हस्तोत्तरर्वांमधुना तूंद्गन्ता भस्मकग्रहः ॥२२७|| विपद्यमानस्य जन्मऋक्षं क्रामन् स दुर्ग्रहः । बाधिष्यते ते सन्तानं सहस्र शरदामुभे ॥२२८॥ प्रतिपालय तन्नाथ ! तस्य संक्रमणक्षणम् । स यथा त्वत्प्रभावेण विफलो भवति ग्रहः ॥२२९।। कुस्वप्नाः कुशकुनानि दुर्ग्रहा यान्ति शस्तताम् । अन्येषामपि सर्वेषां हृदि त्वां धारयन्ति ये ॥२३०।। किं पुनर्यत्र साक्षात्त्वं स्वामिन् ! समवतिष्ठसे ? । प्रसीद तत् क्षणं तिष्ठ दुर्ग्रहोपशमोऽस्तु तत् ॥२३१।। पास्वाम्यथोचे न कोऽप्यायुः शक्र ! सन्धातुमीश्वरः । विदन्नपि वदस्येवं किं तीर्थप्रेममोहितः ? ||२३२।।
प्रवर्तनाद् दुःषमायास्तीर्थबाधा भविष्यति । भवितव्यताऽनुसाराद् भस्मकस्योदयोऽप्यभूत् ॥२३३।। पावज्रिणं बोधयित्वैवं सार्धषण्मासवर्जिताम् । त्रिंशदब्दी केवलित्वे परिपाल्य जगद्गुरुः ॥२३४|| पर्यङ्कासननिषण्णो योगे कायस्य बादरे । स्थितो वाङ्मनसयोगावरौत्सीदथ बादरौ ॥२३५।। सूक्ष्मं च वपुषो योगमास्थाय परमेश्वरः । रुरोध बादरं काययोगं योगविचक्षणः ॥२३६।। तौ च सूक्ष्मौ वाङ्मनसयोगावप्यरुणत् प्रभुः । इति सूक्ष्मक्रियं शुक्लध्यानं चक्रे तृतीयकम् ॥२३७।। अपि सूक्ष्मं तनूयोगं विनिरुध्य जगद्गुरुः । समुच्छिन्नक्रियं शुक्लध्यानं तुर्यं दधावथ ॥२३८|| पञ्चह्रस्वाक्षरोच्चारमितकालेन तेन तु । ध्यानेन तुर्येण तुर्यपुमर्थाव्यभिचारिणा ॥२३९।। एरण्डबीजवद् बन्धाभावादूर्ध्वगतिः प्रभुः । पथा स्वभावऋजुना मोक्षमेक उपाययौ ॥२४०॥ (युग्मम्) नारकाणामपि तदा क्षणमेकमभूत् सुखम् । न ये सुखलवस्यापि कदाचिदपि भाजनम् ॥२४१।। वत्सरोऽभूत्तदा चन्द्रो मासस्तु प्रीतिवर्धनः । नन्दिवर्धनकः पक्षोऽग्निवेशो नाम वासरः ॥२४२।। सोऽन्येन नाम्नोपशमो देवानन्दा तु सा निशा । नैनीत्यन्यनाम्ना तु लवोऽर्च्य इति संज्ञया ॥२४३।। प्राणः शुक्लाभिधानश्च स्तोकः सिद्धाभिधानकः । सर्वार्थसिद्धो मुहूर्तो नागाख्यं करणं पुनः ॥२४४|| पातदानीं च समुत्पन्ना नाम्ना कुन्थुरनुद्धरा । अस्पन्दा सा न दृग्ग्राह्या स्पन्दमाना तु दृश्यते ॥२४५॥
संयमोऽतः परं भावी दुष्पाल इति चिन्तया । तां दृष्ट्वा साधवः साध्व्यो बहवोऽनशनं व्यधुः ॥२४६।। निर्वाणे स्वामिनि ज्ञानदीपके द्रव्यदीपकान् । तदानीं रचयामासुः सर्वेऽपि पृथिवीभुजः ॥२४७||
तदाप्रभृति लोकेऽपि पर्व दीपोत्सवाभिधम् । सर्वतो दीपकरणात् तस्यां रात्रौ प्रवर्तते ॥२४८|| १. तद्गन्ता खं. ३-४, नु. मु. । २. भास्म० खं. ४ । ३. ०ष्यति खं. ३ । ४. शलोक २२७-२८ स्थाने खं. १ प्रतावेवं श्रलोकद्वयं दृश्यते -
"स्वर्गावतरणे गर्भसञ्चारे जन्मपर्वणि । दीक्षायां केवलज्ञाने पञ्चहस्तोत्तरप्रभोः ॥
संक्रामन् जन्मनक्षत्रं भवतो निवृ(वृ)तिक्षणैः । बाधिता तेऽन्वयं वर्षसहस्रे भस्मकग्रहः ॥" ५. ०नाश्च खं. १ । ६. सूक्ष्मतनु० खं. १ । ७. तुर्यः पुमर्थो मोक्षस्तं न व्यभिचरति, तेन । ८. तस्य दिवसस्याऽपरं नाम उपशम: । ९. सूक्ष्मजन्तुविशेषः कुन्थुः । सा यदि स्थिरा स्यात्तदा द्रष्टुमुद्धर्तुं वा न शक्यते ।