________________
त्रयोदशः सर्गः ]
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
बलदेवस्य जीवोऽर्हन्निष्कषायस्त्रयोदशः । जिनेन्द्रो रोहिणीजीवो निष्पुलाक श्चतुर्दशः ॥ १९५॥ निर्ममः सुलसाजीवो जिनः पञ्चदशः पुनः । षोडशो रेवतीजीवश्चित्रगुप्तोऽभिधानतः ॥ १९६॥ गवालिजीवः समाधिर्नाम्ना सप्तदशो जिनः । जीवस्तु गांर्गलेरष्टादशोऽर्हन् संवराभिधः ॥१९७॥ द्वीपायनजीवस्त्वेकोनविंशोऽर्हन् यशोधरः । विजयो विंशतितमः कर्णजीवो जिनेश्वरः ॥१९८॥ एकविंशो जिनो मल्लो यः पुरा नारदोऽभवत् । अम्बडस्य पुनर्जीवो द्वाविंशो देवतीर्थकृत् ॥१९९॥ त्रयोविंशोऽनन्तवीर्यो जीवो द्वारमदस्य तु । स्वातिजीवश्चतुर्विंशो भद्रकृन्नाम तीर्थकृत् ॥२००॥ [[दीर्घदन्तो गूढदन्तः शुद्धदन्तस्तृतीयकः । तथा श्रीचन्द्रः श्रीभूतिः श्रीसोमः पद्म इत्यपि ॥२०१|| महापद्म दशमाख्यस्तथा विमल इत्यपि । विमलवाहनोऽरिष्टो भाविनोऽमी च चक्रिणः ॥ २०२ || ( युग्मम् ) नन्दिश्च नन्दिमित्रश्च तथा सुन्दरबाहुकः । महाबाहुरतिबलो महाबल - बलावपि ॥२०३॥ द्विपृष्ठश्च त्रिपृष्ठश्च नवाऽमी अर्धचक्रिणः । चटत्प्रकर्षा रामाश्च तत्र प्रथमतो बलः ॥२०४॥ जयन्तोऽथाऽजितो धर्मः सुप्रभश्च सुदर्शनः । आनन्दो नन्दनः पद्मस्तथा संकर्षणोऽन्तिमः ॥२०५॥ प्रत्यर्धचक्रिणश्चैते तिलको लोहजङ्घकः । वज्रजङ्घः केसरी च बलिः प्रह्लाद इत्यपि ॥२०६|| तथाऽपराजितो भीमः सुग्रीवो नवमः पुनः । इत्युत्सर्पिण्यां त्रिषष्टिः शलाकापुरुषा अमी ॥२०७॥ प|इत्युक्तवन्तं श्रीवीरं सुधर्मा गणभृद्वरः । पप्रच्छ केवलादित्यः किं कुत्रोच्छेदमेष्यति ? ॥२०८॥ स्वाम्यथाऽऽख्यन्मम मोक्षाद् गते काले कियत्यपि । जम्बूनाम्नस्तव शिष्यात् परं भावि न केवलम् ||२०९॥ उच्छिन्ने केवले भावी न मन:पर्ययोऽपि हि । पुलाकलब्धिश्च तथाऽवधिश्च परमो न हि ॥ २१०|| क्षपकोपशमश्रेण्यौ न च नाऽऽहारकं वपुः । जिनकल्पो न हि न हि संयमत्रितयं तथा ॥२११॥ [[शिष्यः सेत्स्यति ते जम्बूः स चतुर्दशपूर्वभृत् । जम्बूशिष्यः प्रभवश्च भविता सर्वपूर्वभृत् ॥२१२॥ शय्यम्भवस्तु तच्छिष्यो द्वादशाङ्गी भविष्यति । दशवैकालिकग्रन्थं स्रक्ष्यत्युद्धृत्य स श्रुतात् ॥२१३ ॥ तस्य शिष्यो यशोभद्रो भविता सर्वपूर्वभृत् । सम्भूत- भद्रबाहू च तच्छिष्यौ सर्वपूर्वि ॥ २१४॥ स्थूलभद्रोऽथ सम्भूतान्तेवासी सर्वपूर्वभृत् । ततोऽन्तिमा चतुःपूर्वी व्युच्छेदमुपयास्यति ॥२१५॥ महागिरि - सुहस्त्याद्या वज्रान्ता दशपूर्विणः । ततः परं भविष्यन्ति तीर्थस्याऽस्य प्रवर्तकाः ||२१६|| एवमाख्याय समवसरणान्निर्ययौ प्रभुः । हस्तिपालनरेन्द्रस्य शुल्कशालां जगाम च ॥२१७|| स्वामी तद्दिनयामिन्यां विदित्वा मोक्षमात्मनः । दध्यावहो गौतमस्य मयि स्नेहो निरत्ययः || २१८ || स एव केवलज्ञानप्रत्यूहोऽस्य महात्मनः । स च्छेद्य इति विज्ञाय निजगादेति गौतमम् ॥२१९॥ देवशर्मा द्विजो ग्रामे परस्मिन्नस्ति स त्वया । बोधं प्राप्स्यति तद्धेतोस्तत्र त्वं गच्छ गौतम ! ॥ २२०॥ यथाऽऽदिशति मे स्वामीत्युदित्वा च प्रणम्य च । जगाम गौतममुनिस्तथा चक्रे प्रभोर्वचः ॥२२१॥ [[तदा च कार्तिकदर्शनिशायाः पश्चिमे क्षणे । स्वातित्र वर्तमाने कृतषष्ठो जगद्गुरुः ॥२२२॥
कल्याणफलपाकानि पञ्चपञ्चाशतं तथा । तावन्त्यघविपाकानि जगावध्ययनानि तु ॥ २२३ ॥
१८९
१. मार्ग० खं. १-३ । २. द्वैपा० खं. ३-४ । ३. वर्धमानोत्कर्षाः । ४. उत्सन्ने खं. ३ । उत्सन्न० खं. १ । ५. नचावधि० खं. १-४, नू. मु. । ६. पण्यागारम् । ७. केवलज्ञानप्राप्तौ विघ्नम् । ८. कल्याणि० खं. ४ ।