________________
१८८
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व पललाहारनिरता नृशंसा निविवेककाः । तदानीं च भविष्यन्ति मनुष्याद्या अशेषतः ॥१६७॥ तदा रथपथमात्रं गङ्गा-सिन्धुनदीजलम् । प्रवक्ष्यति चलन्मत्स्य-कच्छपादिभिराचिंतम् ॥१६८|| तत्रैत्य निशि मत्स्यादीन् कृष्ट्वा मोक्ष्यन्ति च स्थले । दिवा सूर्यत्विषा पक्वान् खादिष्यन्ति निशाऽन्तरे ॥१६९।। एवं सदाऽपि भोक्ष्यन्ते यद्दध्यादि तदा न हि । न पुष्पं न फलं नान्नं न च शय्याऽऽसनादिकम् ॥१७०॥ पाभरतैरवतेष्वेवं दशस्वपि हि दुःषमा । तथाऽतिदुःषमाऽप्येकविंशत्यब्दसहस्रिका ॥१७१।।
अरौ याववसर्पिण्यामन्त्योपान्त्यावुभौ च तौ । उत्सर्पिण्यां स्वकीयानुभावावाद्यद्वितीयकौ ॥१७२।। पाउत्सर्पिण्यां दुःषमदुःषमान्तसमयेऽम्बुदाः । भाविनः पञ्च सप्ताहवर्षिणस्ते पृथक् पृथक् ॥१७३॥ तत्राऽऽद्यः पुष्करो नाम महीं निर्वापयिष्यति । द्वितीयः क्षीरमेघाख्यो धान्यान्युत्पादयिष्यति ॥१७४|| तृतीयो घृतमेघाख्यः स्नेहं संजनयिष्यति । तुर्यस्त्वमृतमेघाख्य ओषध्यादि करिष्यति ॥१५॥ पृथ्व्यादीनां रसं कर्ता रसमेघश्च पञ्चमः । पञ्चत्रिंशद्दिना वृष्टिर्भाविनी सौम्यदुर्दिना ॥१७६।। द्रुमौ-षधि-लता-वल्ली-हरितादि निरीक्ष्य च । बिलेभ्यो नि:सरिष्यन्ति मुदिता बिलवासिनः ॥१७७|| ते वक्ष्यन्ति भरतभूरभूत् पुष्पफलादिभृत् । भक्ष्यं नाऽतः परं मांसं त्याज्यो मांसादकश्च यः ॥१७८॥ यथा यथैष्यति कालो वय॑न्ति हि तथा तथा । रूप-संहनना-ऽऽयूंषि धान्यादीनि च भारते ॥१७९।। भविष्यन्ति सुखा वाता ऋतवः सलिलानि च । तिर्यञ्चश्च मनुष्याश्च गतरोगाः क्रमेण च ॥१८०॥ पादुःषमान्ते भविष्यन्ति मध्येप्राग्भरतावनि । कुलकराः सप्त तत्राऽऽदिमो विमलवाहनः ॥१८१।।
सुदामा सङ्गमश्चापि सुपार्श्वश्च चतुर्थकः । दत्तश्च सुमुखश्चैव संमुचिश्चेति ते क्रमात् ॥१८२।। पातत्र जातिस्मरः पूर्वो नाम्ना विमलवाहनः । निवेशयिष्यति ग्राम-पुरादीन् राज्यहेतवे ॥१८३|| सङ्ग्रहीष्यति गोगजाऽश्वाद्यथ व्यञ्जयिष्यति । शिल्पानि व्यवहारं च लिपीश्च गणितादि च ॥१८४|| उत्पन्ने दुग्ध-दध्यादौ सस्येषु ज्वलनेऽपि च । हितकारी स प्रजानां रन्धनाद्युपदेक्ष्यति ॥१८५।।। दुःषमायामतीतायां शतद्वारे महापुरे । भद्रानाम्न्यां महादेव्यां संमुचेः पृथिवीपतेः ॥१८६।। नन्दनः श्रेणिक जीवो भविष्यत्यादितीर्थकृत् । पद्मनाभाभिधस्तुल्यो जन्ममानादिना मम ॥१८७|| अतः परं पूर्ववच्च भविष्यन्ति जिनेश्वराः । प्रातिलोम्येन पूर्वार्हत्समाः सर्वेऽप्यमी क्रमात् ॥१८८॥ तत्र श्रेणिकराड्जीवः पद्मनाभो जिनेश्वरः । सुपार्श्वजीवो भगवान् शूरदेवो द्वितीयकः ॥१८९।। तृतीयः पोट्टिलजीवः सुपाश्रर्वो जिनपुङ्गवः । जीवो दृढायुषस्तुर्यस्तीर्थनाथः स्वयंप्रभः ॥१९०।। कार्तिकस्य जीवः सर्वानुभूतिरिति पञ्चमः । जीवः शङ्खस्य षष्ठोऽर्हन् देवश्रुतोऽभिधानतः ॥१९१।। सप्तमो नन्दजीवस्तु जिनेन्द्र उदयाह्वयः । सुनन्दजीवोऽष्टमोऽर्हन् पेढाल इति नामतः ॥१९२।। नवमः केकसीजीवो जिनेन्द्रः पोट्टिलाभिधः । दशमो रेयलिजीव: शतकीर्तिजिनेश्वरः ॥१९३।। अर्हन् सत्यकिजीवश्चैकादशः सुव्रताभिधः । द्वादशोऽर्हन्नममाख्यो जीवः कृष्णस्य शाङ्गिणः ॥१९४।।
१. भविष्यति खं. १ । २. व्याप्तम् । ३. ०द्दिनीं मु., नू. मु. । ४. मांसभक्षकः । ५. ०तानि खं. ३ । ६. हितकामी नू. मु. । ७. सूरदेवो खं. १-३ । ८. ०प्रभुः मु., नू. मु. । ९. रेवति० नू. मु. टि. ।