Book Title: Trishashtishalakapurushcharitammahakavyam Parva 10
Author(s): Hemchandracharya, Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 214
________________ १९० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं [दशमं पर्व षट्त्रिंशतमप्रश्नव्याकरणान्यभिधाय च । प्रधानं नामाऽध्ययनं जगद्गुरुभावयत् ॥२२४।। स्वामिनो मोक्षसमयं विज्ञायाऽऽसनकम्पतः । सुरासुरेन्द्रास्तत्रेयुः सर्वेऽपि सपरिच्छदाः ॥२२५।। पासहस्राक्षोऽश्रुपूर्णाक्षः प्रणम्याऽथ जगद्गुरुम् । विरचय्याऽञ्जलिं मूनि ससंभ्रममदोऽवदत् ॥२२६।। गर्भे जन्मनि दीक्षायां केवले च तव प्रभो ! । हस्तोत्तरर्वांमधुना तूंद्गन्ता भस्मकग्रहः ॥२२७|| विपद्यमानस्य जन्मऋक्षं क्रामन् स दुर्ग्रहः । बाधिष्यते ते सन्तानं सहस्र शरदामुभे ॥२२८॥ प्रतिपालय तन्नाथ ! तस्य संक्रमणक्षणम् । स यथा त्वत्प्रभावेण विफलो भवति ग्रहः ॥२२९।। कुस्वप्नाः कुशकुनानि दुर्ग्रहा यान्ति शस्तताम् । अन्येषामपि सर्वेषां हृदि त्वां धारयन्ति ये ॥२३०।। किं पुनर्यत्र साक्षात्त्वं स्वामिन् ! समवतिष्ठसे ? । प्रसीद तत् क्षणं तिष्ठ दुर्ग्रहोपशमोऽस्तु तत् ॥२३१।। पास्वाम्यथोचे न कोऽप्यायुः शक्र ! सन्धातुमीश्वरः । विदन्नपि वदस्येवं किं तीर्थप्रेममोहितः ? ||२३२।। प्रवर्तनाद् दुःषमायास्तीर्थबाधा भविष्यति । भवितव्यताऽनुसाराद् भस्मकस्योदयोऽप्यभूत् ॥२३३।। पावज्रिणं बोधयित्वैवं सार्धषण्मासवर्जिताम् । त्रिंशदब्दी केवलित्वे परिपाल्य जगद्गुरुः ॥२३४|| पर्यङ्कासननिषण्णो योगे कायस्य बादरे । स्थितो वाङ्मनसयोगावरौत्सीदथ बादरौ ॥२३५।। सूक्ष्मं च वपुषो योगमास्थाय परमेश्वरः । रुरोध बादरं काययोगं योगविचक्षणः ॥२३६।। तौ च सूक्ष्मौ वाङ्मनसयोगावप्यरुणत् प्रभुः । इति सूक्ष्मक्रियं शुक्लध्यानं चक्रे तृतीयकम् ॥२३७।। अपि सूक्ष्मं तनूयोगं विनिरुध्य जगद्गुरुः । समुच्छिन्नक्रियं शुक्लध्यानं तुर्यं दधावथ ॥२३८|| पञ्चह्रस्वाक्षरोच्चारमितकालेन तेन तु । ध्यानेन तुर्येण तुर्यपुमर्थाव्यभिचारिणा ॥२३९।। एरण्डबीजवद् बन्धाभावादूर्ध्वगतिः प्रभुः । पथा स्वभावऋजुना मोक्षमेक उपाययौ ॥२४०॥ (युग्मम्) नारकाणामपि तदा क्षणमेकमभूत् सुखम् । न ये सुखलवस्यापि कदाचिदपि भाजनम् ॥२४१।। वत्सरोऽभूत्तदा चन्द्रो मासस्तु प्रीतिवर्धनः । नन्दिवर्धनकः पक्षोऽग्निवेशो नाम वासरः ॥२४२।। सोऽन्येन नाम्नोपशमो देवानन्दा तु सा निशा । नैनीत्यन्यनाम्ना तु लवोऽर्च्य इति संज्ञया ॥२४३।। प्राणः शुक्लाभिधानश्च स्तोकः सिद्धाभिधानकः । सर्वार्थसिद्धो मुहूर्तो नागाख्यं करणं पुनः ॥२४४|| पातदानीं च समुत्पन्ना नाम्ना कुन्थुरनुद्धरा । अस्पन्दा सा न दृग्ग्राह्या स्पन्दमाना तु दृश्यते ॥२४५॥ संयमोऽतः परं भावी दुष्पाल इति चिन्तया । तां दृष्ट्वा साधवः साध्व्यो बहवोऽनशनं व्यधुः ॥२४६।। निर्वाणे स्वामिनि ज्ञानदीपके द्रव्यदीपकान् । तदानीं रचयामासुः सर्वेऽपि पृथिवीभुजः ॥२४७|| तदाप्रभृति लोकेऽपि पर्व दीपोत्सवाभिधम् । सर्वतो दीपकरणात् तस्यां रात्रौ प्रवर्तते ॥२४८|| १. तद्गन्ता खं. ३-४, नु. मु. । २. भास्म० खं. ४ । ३. ०ष्यति खं. ३ । ४. शलोक २२७-२८ स्थाने खं. १ प्रतावेवं श्रलोकद्वयं दृश्यते - "स्वर्गावतरणे गर्भसञ्चारे जन्मपर्वणि । दीक्षायां केवलज्ञाने पञ्चहस्तोत्तरप्रभोः ॥ संक्रामन् जन्मनक्षत्रं भवतो निवृ(वृ)तिक्षणैः । बाधिता तेऽन्वयं वर्षसहस्रे भस्मकग्रहः ॥" ५. ०नाश्च खं. १ । ६. सूक्ष्मतनु० खं. १ । ७. तुर्यः पुमर्थो मोक्षस्तं न व्यभिचरति, तेन । ८. तस्य दिवसस्याऽपरं नाम उपशम: । ९. सूक्ष्मजन्तुविशेषः कुन्थुः । सा यदि स्थिरा स्यात्तदा द्रष्टुमुद्धर्तुं वा न शक्यते ।

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280