Book Title: Trishashtishalakapurushcharitammahakavyam Parva 10
Author(s): Hemchandracharya, Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
१८७
त्रयोदशः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । दृग्विकारैः स्मितैर्जल्पैविलासैरपरैरपि । वेश्यामनुकरिष्यन्ति त्यक्तलज्जाः कुलस्त्रियः ॥१४०॥ श्रावकश्राविकाहानिश्चतुर्धा धर्मसंक्षयः । साधूनामथ साध्वीनां पर्वस्वप्यनिमन्त्रणम् ॥१४१।। कूटतुला कूटमानं शाठ्यं धर्मेऽपि भावि च । सन्तो दुस्थीभविष्यन्ति सुस्थाः स्थास्यन्ति दुर्जनाः ॥१४२॥ मणि-मन्त्रौ-षधी-तन्त्रविज्ञानानां धनायुषाम् । फल-पुष्प-रसानां च रूपस्य वपुरुन्नतेः ॥१४३।। धर्माणां शुभभावानां चान्येषां पञ्चमे ह्यरे । हानिर्भविष्यति ततोऽप्यरे षष्ठेऽधिकं खलु ॥१४४|| क्रमादेवं क्षीयमाणपुण्ये काले प्रसर्पति । धर्मे धीर्भाविनी यस्य सफलं तस्य जीवितम् ॥१४५।। [आचार्यो दुःप्रसहाख्यः फल्गुश्रीरिति साध्व्यपि । श्रावको नायिलो नाम सत्यश्रीश्राविका पुनः ॥१४६।। विमलवाहन इति राण्मन्त्री सुमुखाभिधः । अपश्चिमा भाविनोऽमी दुःषमायां हि भारते ॥१४७|| रनिद्वयप्रमाणाङ्गा विंशत्यब्दायुषश्च ते । तपो दुष्प्रसहादीनां चतुर्णां षष्ठमुत्कटम् ॥१४८॥ दशवकालिक भृद्यः स चतुर्दशपूर्विवत् । प्रबोधयिष्यति सङ्घ तीर्थं दुष्प्रसहावधि ॥१४९॥ ततोऽर्वाग् वय॑ते धर्मो धर्मो नास्तीति यः पुनः । वदिष्यति स सङ्घन कर्तव्यः सङ्घतो बहिः ॥१५०॥ द्वादशाब्दी गृहे नीत्वाऽष्टाब्दी दुष्प्रसहो व्रते । पर्यन्तेऽष्टमभक्तेन सौधर्म कल्पमेष्यति ॥१५१॥ पूर्वाणेऽथ चरित्रस्य समुच्छेदो भविष्यति । मध्याह्ने राजधर्मस्याऽपराह्ने जातवेदसः ॥१५२॥ इत्थं च दुःषमा वर्षसहस्राण्येकविंशतिः । एकान्तदुःषमाकालोऽप्येवंमानो भविष्यति ॥१५३|| पाधर्मतत्त्वे प्रणष्टेऽथ हाहाभूतो भविष्यति । पशुवन्मातृपुत्रादिव्यवस्थावर्जितो जनः ॥१५४|| परुषाः पांशुभूयांसोऽनिष्टा वास्यन्ति वायवः । दिशश्च धूमायिष्यन्ति भीषणाश्च दिवानिशम् ॥१५५।। इन्दुः स्रक्ष्यत्यतिशीतं तप्स्यत्यत्युष्णमर्यमा । अतिशीतोष्णाभिहतो लोकः क्लेशमवाप्स्यति ॥१५६॥ तदा च विरसा मेघाः क्षारमेघाऽम्लमेघकाः । विषा-ग्न्य-शनिमेघाश्च वर्षिष्यन्त्यात्मसन्निभम् ॥१५७|| येन भावी कासः श्वासः शलं कष्ठं जलोदरम् । ज्वर: शिरोऽतिरन्येऽपि मनुष्याणां महाऽऽमयाः ॥१५८।। दु:खं स्थास्यन्ति तिर्यञ्चो जल-स्थल-खचारिणः । भावी क्षेत्र-वना-राम-लता-तरु-तृणक्षयः ॥१५९|| वैताढ्य-ऋचभकूट-गङ्गा-सिन्धूर्विमुच्य च । समीभविष्यत्यखिलं गिरिगर्ताऽऽपगादिकम् ॥१६०|| अङ्गारमर्मराभा भूभस्मरूपा भविष्यति । कदाचिद् धूलिबहला कदाचित् सान्द्रकर्दमा ॥१६१।। रत्नमानाः परुषाङ्गा दुर्वर्णा निष्ठुरोक्तयः । रोगार्ताः क्रोधना उच्चघाटाश्चिपिटनासिकाः ॥१६२।। निर्लज्जा वस्त्ररहिता भविष्यन्ति नराः स्त्रियः । आयुर्विंशतिरब्दानि नृणां स्त्रीणां तु षोडश ॥१६३।। गर्भं वक्ष्यति षड्वर्षा स्त्री दुःखप्रसवा तदा । स्थविरा षोडशाब्दा च भूयिष्ठसुत-नप्तृका ॥१६४|| भाविनो बिलवासाश्च गिरौ वैताढ्यनामनि । द्वासप्ततिर्नधुभयतटभूषु बिलानि तु ॥१६५॥ कूले कुले कृलिनीनां बिलानि नव तत्र च । तिर्यञ्चस्तु भविष्यन्ति बीजमात्रतयैव हि ॥१६६।।
१. दुःस्थी० मु., नू. मु. । २. अरः कालविशेषः। ३. नागिलो० मु. । नायलो० खं. ३ । ४. ०मुत्तमम् मु. । ५. ०पूर्ववित् खं. ४ विना, मु., नू. मु. । ६. वय॑ति खं. १ विना मु., नू. मु. । ७. चारित्र० मु. । ८. अग्नेः । ९. प्रनष्टे० खं. ३४ । १०. ०कूटौ गङ्गासिन्धू वि० खं. ४ । ११. ०मान० खं. ३ विना, मु., नू. मु. । १२. ०पुरुषा० खं. ३-४ विना, मु., नू. मु. । १३. घाटा कृकाटिका, ग्रीवा-मस्तकमध्यभागः ।
Loading... Page Navigation 1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280